रोष्नी पद्धतिः राष्ट्रे आदर्शभूता,- मुख्यमन्त्री।

कोच्ची- राज्यान्तरेभ्यः वृत्यर्थं केरलमागतानां कर्मकराणाम् अपत्यानि केरलीयविद्यालयेषु पठन्ति। तेषां पठनगतेः समीकरणाय आसूत्रिता रोष्नी इति पद्धतिः आदर्शपद्धतिर्भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अब्रवीत्।

     पद्धतेः जालपुटस्य उद्घाटनं, समीक्षा इति मलयालभाषापरिज्ञानरेखायाः उद्घाटनं च विधास्यन् भाषमाण आसीत् सः।

     विश्वस्य यस्मिन् कस्मिंश्चित् कोणो स्थित्वा अपि जीवनोपाधेः स्वयमार्जनाय केरलीयाः प्रभवन्ति। अतः वृत्यर्थम् अत्रागतानाम् अतिथिकर्मकराणां विकारसमस्यादीन् स्वयमेवावगन्तुं ते समर्थाः इत्यपि स असूचयत्।

     अतिथिकर्मकराणां कृते सर्वान् अधिकारान् देशभाषाभेदं विना वयं दद्मः, तादृशं राज्यं भवति केरलम् इत्यपि अनेन सूचितम्।

Leave a Reply

Your email address will not be published. Required fields are marked *