Daily Archives: November 6, 2018

सिख् धर्मविकारः व्रणीकृतः, सीरो चलचित्रं विरुध्य व्यवहारः।

मुम्बै- षा रू खान् वर्यस्य नूतनचलचित्रं सीरो इत्यस्य प्रचारणचित्रे धर्मविकारः व्रणीकृतः इत्याक्षेपमुन्नीय न्यायालये व्यवहारः। षा रू खान् इति नटं , चलचित्रस्य भूमिकाप्रवर्तकान् च विरुध्यैव व्यवहारः। अकाली दलस्य दिल्ली सदस्यः मजीन्दर् सिंह् सिर्सा वर्यः एव न्यायालये व्यवहारं दत्तवान्। सिख् धर्मस्य आक्षेपयुक्तं कार्यं चलचित्रे अस्तीति स वदति। सिख् धर्मानुयायिभिः उपयुज्यमानः कक्कार् इति आयुधं तेषाम् अवहेलनरूपेण वज्ञापनपत्रे प्रादर्शयत् इति तद्धर्मानुयायिनामारोपः।

सिख् धर्मानुयायिभिः बहुमानरूपेण पश्यमानं तम् आयुधं साधारणरूपेण विज्ञप्तिपत्रे प्रादर्शयत्। एषा प्रवृत्तिः असमीचीना इति मजीन्दर् सिंह् वर्यः वदति स्म।