Daily Archives: November 14, 2018

२५ वर्षाभ्यन्तरे मानवः कुजग्रहं प्राप्स्यति, नासा संस्थायाः द्रढीकरणम्।

वाषिङ् टण्- आगामिनि २५ वर्षाभ्यन्तरे मानवं कुजग्रहं प्रति प्रेषितुं परियोजनया सह अमेरिका शून्याकाशसंस्था नासा आगता। एतदर्थं परीक्षणानि आरब्धानि इति नासावृत्तम् असूचयत्।

     एतत् बृहत्तमं दौत्यं भवति। न केवलम् आर्थिकव्ययम् अपितु साङ्केतिकम् अग्रेसरत्वमपि आवश्यकम्। कुजस्य अन्तरिक्षेण सह समीकरणं महान् प्रयास एव। २५ वर्षाभ्यन्तरे सर्वं साध्यं भविष्यति इति नासायाः वृत्तिविरतः वैमानिकः टों जोण्स् प्रत्याशां प्राकटयत्।

     एतगर्थं ७१६० कोटि रूप्यकाणां व्य.म् आवश्यकं, तथापि अवरतः नव वर्षाणि अस्य प्रवर्तनाय आवश्यकानि इत्यपि स अवोचत्।

केरलपुनर्निर्मितिः, ऐक्यराष्ट्रसभानिर्देशम् उपदेशकसमितिः अङ्गीचकार।

तिरुवनन्तपुरम्- प्रलयानन्तरं केरलस्य पुनर्निर्माणविषये ऐक्यराष्टट्रसभायाः निर्देशान् तदर्थं रूपवत्कृता उपदेशकसमितिः अङ्गीचकार। आवेदनं समग्रं तथा सर्वप्रान्तस्पर्शनं चेति समित्यङ्गानामभिप्रायः। नदीसंसक्षणार्थं केरला रिवर् बेसिन् अथोरिट्टी अत्यावश्यकम् इत्यपि अधिवेशने अभिप्रायः समायातः।

     कुट्टनाट् प्रदेशे जनानां जीवनं कार्षिकवृत्तिश्च कथं संरक्षणीयं इति विषये आसूत्रणसमितिः पठनं करिष्यति। जलविभवविभागस्य सहकरणेन भवेत् इदं पठनम्।

     उपदेशकसमितेः द्वितीयम् अघिवेशनमेव ह्यस्तने आयोदितम्। अङ्गानां निर्देशान् समग्रतया अवधार्य आवेदनमायोजयितुं निरणयत्। मुख्यमन्त्री पिणराय् विजयन् वर्यः अध्यक्ष‌ आसीत्।