Daily Archives: November 7, 2018

वायुमलिनीकरणं, कृतकवृष्टिवर्षापणार्थं केन्द्रीय मलिनीकरण-नियन्त्रणमण्डलम्।

नवदिल्ली- वायुमलिनीकरणस्य क्रमातीतायां वर्धनायां केन्द्रीय-मलिनीकरम-नियन्त्रण मण्डलम् इति संस्था कृतकवृष्टिं वर्षापयितुं प्रयत्नमारभत। एतत् दीपावली समारोहानन्तरं कर्तुं निरचिनोत्। वर्षापातेन अन्तरिक्षे मलिनीकरणं न्यूनं भवेत् इति  अस्याः संस्थायाः प्रतीक्षा।

     राष्ट्रे सर्वाधिकं मलिनीकरणं दिल्लीनगरे एवास्ति। गते दिने अतितरां वायुमलिनीकरणस्थितिं तत्रैव  रेखाङ्कितं वर्तते। दीपावलीसमारोहानन्तरं अस्य स्थितिः एतस्मादपि उच्चश्रेणीं प्राप्स्यति। अस्मिन् साहचर्ये एव अन्तरिक्षे मालिन्यस्य परिमाणन्यूनीकरणार्थं कृतकवृष्टिवर्षापणार्थं संस्था यतते।

     क्लौड् सीडिंग्  इति तान्त्रिकविद्यया एव कृतकवर्षापणं भविता। सिल्वर् अयोडैय्ड्, शुष्कहिमं, लवणम् इत्यादीनि रासपदार्थानि मेघोपरि विकीर्य तेषां भारं वर्धापयित्वा वर्षापणमेव एषा रीतिः।