भूतपूर्वः केन्द्रमन्त्री तथा काण्ग्रेस् दलस्य वरिष्ठनेता एन्.डी.तिवारीवर्यः दिवङ्गतः।

नवदिल्ली- उत्तरप्रदेश-उत्तरखण्डराज्ययोः भूतपूर्वमुख्यमन्त्री , भूतपूर्वः केन्द्रमन्त्री तथा काण्ग्रेस् दलस्य वरिष्ठनेता च  एन्.डी. तिवारीवर्यः दिवङ्गतः। सः ९३ वयस्कः आसीत्। तस्य नवत्रिंशे जन्मदिवसे एव स अन्तरितः। वृक्कासम्बन्धिना रोगेण आतुरः चिकित्सायाम् आसीत्।  दिल्यां निजीयचिकित्सालये सायं चतुर्वादने आसीत् अन्त्यम्।

     राष्ट्रे राज्यद्वयोः मुख्यमन्त्रिपदमलंकृता एका व्यक्तिरसै। १९८६-८७ तमे वर्षे राजीवगान्धीमन्त्रिपरिषदि विदेशकार्यमन्त्री, तदनन्तरं तत्रैव वित्तमन्त्री चासीदयम्। २००७-२००९ कालपरिधौ आन्ध्राप्रदेशे राज्यपालः आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *