राज्यस्थेषु कलाशालासु शान्तिभङ्गः नाङ्गीक्रियते , अपराधिभ्यः कर्शनदण्डः भविष्यति – मुख्यमन्त्री।

कोच्ची- एरणाकुलं महाराजास् कलालये स्नातकछात्रः तथा एस्.एफ्.ऐ. इति छात्रसङ्घस्य प्रवर्तकश्च अभिमन्यु इति छात्रस्य हत्याविषये अपराधिनां दण्डनम् अचिरेणैव भविष्यतीति मुख्यमन्त्री पिणरायि विजयः अवदत्। एतदर्थं रक्षिदलं निरदिशदिति सो/सूचयत्।
इतः पर्यन्तं त्रयः निगृहीताः। अत्यन्तम् अपलपनीयं कार्यमेव महाराजकलालये आपतितम्। हत्या आसूत्रिता एवासीदिति रक्षिदलानां प्राथमिकान्वेषणे ज्ञातमस्ति। कलालयात् बहिस्थिताः आतङ्कवादिनः एव हत्यामकुर्वन्। आतङ्कवादं विरुध्य धर्मनिरपेक्षसमाजैः जागरूकैः भाव्यमित्यपि मुख्यमन्त्री अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *