Monthly Archives: April 2018

सिरियादेशे रासायुधप्रयोगः, ७० जनाः मारिताः, शिष्टेषु केचन गुरुतरावस्थायाम्।

दमास्कस् – सिरियायां पुनः रासायुधप्रयोगः। विमतमेखलायां दूमायां सञ्जाते आक्रमणे ७० जनाः मारिताः। तेषु स्त्रियः शिशवश्चान्तर्भवन्ति। शनिवासरे रात्रावेव रासायुधप्रयोगः सञ्जातः। आक्रमणे नैके जनाः रुग्णाश्च सञ्जाताः।

     क्लोरिन् वातकसंयुक्तमेव आक्रमणाय उपयुक्तमिति संशयः।वदनात् फेनप्रस्रवणरूपाणि शिशूनां चित्राणि चलचित्राणि च नवमाध्यमेषु बहुप्रचारितानि दृश्यन्ते।

     प्रदेशात् जनाः अपवारयन्तः सन्ति। रुग्णेषु बहूनाम् अवस्था गुरुतरा इत्यतः मृत्युसंख्यायां वर्धना जायेतेति वैट् हेल्मेट् संस्था आवेदयत्। परन्तु रासायुधप्रयोगस्य आधिकारिकं स्थिरीकरणं नागतम्।

PRASNOTHARAM 14-04-2018

 

 

प्रश्नोत्तरम्।

 

 

 

  1. लोकार्योग्यदिनम् कस्मिन् दिनाङ्के भवति ? (क) एप्रिल् ६  (ख) एप्रिल् ७   (ग)  एप्रिल् ८
  2.    २०१८ वर्षस्य  कोमण् वेल्त् गेयिम्स् ( Common Wealth Games)  कस्मिन्  राष्ट्रे प्रचलति ?                                   (क) श्रीलङ्का (ख) मलेष्या (ग) आस्ट्रेलिया
  3. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ४८ किलोग्राम् भारोद्वहन मत्सरे प्रथम सुवर्णम् प्राप्ता भारतीयवनिता का ?           (क) मीराभाय् चानू (ख) पापुव न्यूगिनि (ग) सञ्चिता चानू
  4. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ५३ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्ता भारतीयवनिता का ?            (क)मीराभाय् चानू (ख) पापुव न्यूगिनि (ग) सञ्चिता चानू
  5. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ६९ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्तःभारतीयः कः ?                       (क)पूनं यादवः     (ख) वेङ्कट्ट  राहुलः  (ग) सतीष् कुमारः
  6. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ७७ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्तः भारतीयः कः ?                      (क)पूनं यादवः     (ख) वेङ्कट्ट राहुलः (ग) सतीष् कुमारः
  7. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ८५ किलोग्राम् भारोद्वहन मत्सरे  सुवर्णम् प्राप्तः भारतीयः कः ?                           (क) पूनं यादवः    (ख) वेङ्कट्ट राहुलः (ग) सतीष् कुमारः
  8. कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् १० मीटर् एयर् पिस्टल् (10 m Air Pistol ) मत्सरे  सुवर्णम् प्राप्ता भारतीयवनिता का ? (क) मनु भाक्कर् (ख) हीना (ग) एलीना
  9. बुद्धं शरणं गच्छामि । अत्र कर्ता कः ? (क) अहम् (ख) त्वम्  (ग) सः
  10. संस्कृतभाषायां कति विभक्तयः सन्ति ? (क) पञ्च (ख) षट् (ग) सप्त

ഈയാഴ്ചയിലെ വിജയി

Sangeetha Sandeep , Ernakulam

“അഭിനന്ദനങ്ങൾ”

 

ശരിയുത്തരങ്ങൾ:

1 ഏപ്രിൽ 7
2 ആസ്‌ട്രേലിയ
3 മീരാഭായ് ചാനു
4 സഞ്ജിത ചാനു
5 പൂനം യാദവ
6 സതീഷ് കുമാർ
7 വെങ്കട്ട രാഹുല
8 മനു ഭാക്കർ
9 അഹം
10 സപ്ത

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ

जिह्वाप्रसादः – विजयन् वि पट्टाम्बि।

सर्वेन्द्रियेषु प्रसादभूता

जिह्वा जनानां मुखोपविष्टा

जीयादनल्पा विवदमाना

खादनकर्मणि नित्यतृप्ता।

 

यान्यसौ वस्तूनि चात्तिमोदा-

न्नास्त्यत्र दोषो हा सद्यःपाती

यान्यसौ भाषते क्षिप्रकोपा-

दापत्प्रदा सैषा नास्ति तर्कः।

 

कारागृहावासदण्डदोषान्

भौतिकमानसदुःखजालान्

सर्वान् विधत्ते रसनेन्द्रियं

ज्येष्ठाविलासात् हा हन्त कष्टम्।

 

सत्यं वदत हितं वदत

सत्यानुरूपं प्रियं वदत

सौभाग्यमत्रैव लभ्यमहो

जिह्वाप्रसादेन सज्जनेभ्यः।

पठनकार्ये पश्चाद्गमनकारणेन छात्राः विद्यालयेभ्य न निष्कासनीया इति सी.बी.एस्.ई.।

पठनकार्ये पुरोगतिर्नास्तीति कारणेन पराजिताः भविष्यन्तीति कारणेन वा छात्रान् विद्यालयेभ्यो निष्कासयितुं मार्गाः नान्वेष्टव्या इति सी.बी.एस्.ई. संस्थया विज्ञापितम्। १०० शतमित विजयाय निर्बन्धितरूपेण विद्यालयसंक्रामपत्रं न दातव्यमित्यपि तेषां सूचनास्ति। संंक्रामपत्रं रक्षाकर्तृणाम् आवेदनानुसारमेव दातव्यम्।

उत्तीर्णतायै आन्तरमूल्यनिर्णयस्य अङ्केन समम् आहत्य प्रतिशतं ३३ अङ्काः कल्पिता। पूर्वमेतत् आन्तराङ्कं विना ३३ प्रतिशतमासीत्। पाम्पाटी विद्यालयात् एकस्य छात्रस्य आत्महत्यायाः अनन्तरमेव अस्मिन् विषये अधुना नूतनः निर्णयः आगतः।

काठ्मण्डूतः नवदिल्लीं प्रति रेल्यानपथनिर्माणार्थं समया।

नवदिल्ली- नेपालस्य काठ्मण्डूतः भारतं प्रति रेल्यानपथं निर्मातुं भारतं नेपालश्च समयामकुरुताम्। प्रतिरोध-सुरक्षा-यातायात-वाणिज्यरंगेषु द्वयोः राष्ट्रयोः मिथः सहकारित्वं शक्तं कर्तुमपि समया जाता।

     भारते पर्यटनं कुर्वता नेपाल् प्रधानमन्त्रिणा के.पी. शर्मा ओलीवर्येण सह चर्चायाः अनन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना इदं स्पष्ठीकृतम्। द्वयोः राष्ट्रयोः अन्तराले विवृतस्य सीम्नः दुरुपयोगितां निरोद्धुं शक्तः निर्णयः भविता। भारतेन सह सहकरणं नेपालस्य परमप्रधानमिति के.पी. शर्म ओली वर्यः अभिप्रैति स्म।

     नेपाल् सन्दर्शनार्थं प्रधानमन्त्रिणं नरेन्द्रमोदिनं स आमन्त्रितवान्। राष्ट्रपतिना रामनाथकोविन्देन सहापि ओलीवर्यः साक्षात्कारं कृतवान्।

सर्वोच्चन्यायालयस्य निर्णयः अङ्गीकरिष्यते। सर्वे विद्यार्थिनः बहिर्गन्तव्याः भवन्ति। – स्वास्थ्यमन्त्रिणी के.के.शैलजा।

तिरुवनन्तपुरम् – कण्णूर् अञ्चरक्कण्टि, करूणा वैद्यकीयकलालययोः २०१६-१७ वर्षस्य छात्रप्रवेशनसम्बन्धिनं सर्वोच्चन्यायालयनिर्णयं सर्वकारः अङ्गीकरिष्यति इति स्वास्थ्यसचिवा के.के. शैलजावर्या अवदत्। निर्णयानुसारं उभयोः कलालययोः तद्वर्षीयाः सर्वे छात्राः बहिर्गमनीयाः भवन्ति इत्यपि सा न्यगादीत्।

न्यायालयस्य विधिनिर्णयः अनुसरणीयः। निर्णयं नियमान्तरेण अतिक्रान्तुं सर्वकारस्य भागे परिश्रमः नास्ति इत्यपि रिपोर्टर् वार्तानालिकायाः क्लोस्ट् एन्कौण्टर् इति प्रतिवारकार्यक्रमे भगं भजन्ती सा निगदितवती।

विश्वविद्यालयस्थः विदूरविद्याभ्यास पद्धतिः-ः विश्वविद्यालय-धनादेशायोगेन अङ्गीकारः निरस्यते।

कोट्टयम्- केरलस्थानां सर्वेषां विश्वविद्यालयानां विदूरविद्याभ्यासपद्धतीनाम् अङ्गीरारः विनश्यते। आगामिनि अध्ययनवर्षादारभ्य एषां पद्धतीनामङ्गीकारः विश्वविद्यालय-धनादेशायोगेन निरस्यते। आयोगस्य मानदण्डानुसारं केरलस्थस्य कस्यापि विश्वविद्यालयस्य अस्याः पद्धत्याः सञ्चालनार्थं योग्यता नास्ति। २०१८ तमे वर्षे आरभ्यमाणस्य पठनक्रमस्य प्रवेशनं न साध्यं भविष्यति। अधुना केरलस्थेषु विश्वव्ग्यालयेषु स्नातक-स्नातकोत्तरपठनक्रमे १.७२ लक्षं पठितारः सन्ति। एषां पठनं पूर्णं भवितुम् अवकाशः अस्ति।

प्रश्नपत्रसुरक्षाभङ्गः, आवेदनं सर्वोच्चन्यायालयेन निरस्तम्। सी.बी.एस्.ई. निर्णये अन्तर्मेलनं न शक्यमिति न्यायालयः।

नवदिल्ली- प्रश्नपत्राणां सुरक्षाभङ्गविषये समर्पितानि सर्वाणि आवेदनानि सर्वोच्चन्यायालयेन निरस्तानि। पुनःपरीक्षा सम्बन्धे सी.बी.एस्.ई. निर्णये न्यायालयस्य अभिवीक्षणं नावश्यकमिति कारणेनैव आवेदनानि निरस्तानि।
सी.बी.एस्.ई. संस्थायाः भरणपरेषु कार्येषु अन्तर्मेलनार्थं सर्वोच्चन्यायालयस्य आधिकारः नास्ति। प्रश्नपत्रपतने अन्वेषणार्थं विज्ञापनं कर्तुं अन्वेषणं कर्तुं वा नास्ति अधिकारः। अस्मिन् विषये वादस्वीकाराय तात्पर्यमपि नास्तीति सूचयन्नेव आवेदनानि न्यायालयेन निरस्तानि।

विन्नी मण्टेला दिवंगता।

जोहनास्बर्ग् – दक्षिणाफ्रिक्कायाः विमोचननायकस्य नेल्सण् मण्टेला वर्यस्य पत्नी विन्नी मण्टेला दिवंगता। सा एकाशीतिवर्षीया आसीत्। वर्णविवेचननिर्मार्जनसंग्रामे नेल्सण् मण्टेलेन साकं एषा अपि सेनानिनी आसीत्। नूतनदक्षिणाफ्रिक्कायाः माता इत्येव सा प्रथिता।

आमयबाधया सोमवासरे अपराह्णे एव मृतिः जाता। दक्षिणाफ्रिक्कायाः प्रशस्तौ राजनैतिकदम्पती अास्तामेतौ। १९५८ वर्षे विवाहितै तौ १९९६ तमे वर्षे वैवाहिकजीवनात् पृथक्जातौ। तथापि एषा राष्ट्रे आदरणीया आसीत्।

चीनीयबहिराकाशनिलयः शान्तसमुद्रे अपतत्।

बेय्जिङ् – चीनीयः बहिराकाशनिलयः टियान्गोङ्-१ नष्टनियन्त्रणः सन् दक्षिणशान्तसमुद्रे अपतत्। सोमवासरे प्रातः त्रिवादनकल्पमेव निलयः भूमावपतत् इत्येवानेदनम्। बहिराकाशनिलयः भौमान्तरिक्षे प्रविष्टे आसमन्तात् अग्निसादभवदिति शास्त्रज्ञाः असूचयन्।
सोमवासरे ०.१५ वादने टियान्गोङ्-१ भौमान्तरिक्षं प्राविशदिति चीनीयभौमशास्त्रज्ञाः असूचयन्। भ्रमणपथापग्रथनसङ्केतानुसारं निलयस्य प्रत्यागमनम् अमेरिकाराष्ट्रेणापि स्थिरीकृतमासीत्।