Daily Archives: April 15, 2018
तोमाविशुद्धः केरलान् नागच्छत्, सभाप्रस्तावं निरस्य इतिहासज्ञः एं.जी.एस्. नारायणन्।
कोषिक्कोट्- विशुद्धतोमा केरलमागत्य अत्रत्यान् ब्राह्मणान् धर्मपरिवर्तनं कृतवान् इति क्रैस्तवसभायाः प्रस्तावः अबद्धजटिल एवेति विख्यातः इतिहासज्ञः एं.जी.एस्. नारायणन् वर्यः अवदत्। विशुद्धतोमायाः आगमनकाल इति तैः सूचिते काले केरलेषु जनवासोƒपि नासीत्, पुनः कथं ब्राह्मणाः अत्र अभवदिति स अपृच्छत्।
तोमाविशुद्धस्य आगमनसूचकं निदानमस्तीति सीरो मलबार् सभायाः प्रस्तावः अप्रामाणिक एवेति सः न्यगादीत्। पूर्वं पोल् तेलक्काट् इति पुरोहितः एतादृशमभिप्रायं सूचितवानासीत्। तं विरुद्ध्यैव सभा तदर्थं निदानमस्तीति अभिप्रैति स्म। अयमेवाभिप्रायः अधुना इतिहासकारेण निरस्यते।
राजनैतिकदलानि धार्मिकदलानि च असकृत् इतिहासस्य दुर्व्याख्यानं कुर्वन्ति। एतेन प्रभाविताः एव ईदृशमभिप्रायं कुर्वन्ति। क्रिस्तोः पश्चात् ५२ तमे वर्षे केरलदेशः समन्तात् अरण्यसदृशमासीत्। तत्र विशुद्धतोमा आगत्य किं कर्तुं शक्यते स्म इति स अपृच्छत्। मौर्यशासनस्य अन्तिमे चरणे एव अत्र जनवासमासीत्। अतः तोमाविशुद्धस्य केरलसन्दर्शनं क्रैस्तवसभया कल्पितमेव इत्यपि स न्यगादीत्।
ऐश्वर्यस्य शुभदर्शनेन सह अद्य विषुवमहोत्सवः।
।गुरुवायूर्- आगम्यमानानां शुभदिनानां प्रतीक्षया सह विषुशुभदर्शनाय मन्दिरेषु महान् भक्तजनसम्मर्दः। केरलीयाः ऐश्वर्यस्य समृद्धेश्च आगमनम् उद्घोषयन्तः अद्य विषुवमहोत्सवं समाचरन्ति। नववर्षं प्रति पदविन्यास एव विषुवस्य प्रसक्तिः। स्नेहप्रतीकैः फलैः सह कर्णिकारकुसुमानां पीतवर्णः विषुवोपहारस्य ऐश्वर्यं च अमुमुत्सवं महत्तरं नयन्ति।
केरलीयानां कार्षिकोत्सवः खलु विषुवोत्सवः। आगामिवर्षस्य समग्रफलमपि विषुफलमिति नाम्ना गणयन्ति जनाः। विषुवसमानाः उत्सवाः भारतस्य विभिन्नेषु प्रान्तेषु अस्मिन्नेव दिने आचर्यन्ते। सूर्यस्य मेषराशिसंक्रान्तिदिने विषुवमायाति। अत एव विषुवशुभदर्शनार्थं मन्दिरेषु भक्तजनसम्मर्दः अनुभूयन्ते।
सर्वेभ्ये नववाणीसङ्घस्य विषुवशुभकामनाः अर्पयामः।
PRASNOTHARAM 21-04-2018
प्रश्नोत्तरम्।
- ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः नटः कः ?(क)ऋद्धिसेन् (ख)षारूख् खान् (ग) फहद् फासिल्
- ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः सहनटः कः ? (क) अलन्सियर् (ख) इन्द्रन्स् (ग) फहद् फासिल्
- ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः गायकः कः ? (क) एम् जी श्रीकुमारः (ख) येशुदासः (ग) विजय् येशुदासः
- ६५ तमः देशीयचलनचित्रपुरस्कारे श्रेष्ठः निर्देशकः कः ? (क) जयराजः (ख) अटूर् गोपालकृष्णः (ग) लाल् जोस्
- ———— नाम शङ्करः ।(क) मम (ख) माम् (ग) मया
- मम ———- नाम शिवगुरुः । (क) पितरः (ख) पितुः (ग) पित्रा
- मम ————– नाम आर्याम्बा । (क) अम्बया (ख) अम्बायाम् (ग) अम्बायाः
- पुत्र , —————- फलानि क्रीत्वा आगच्छतु ।(क) आपणम् (ख) आपणात् (ग) आपणस्य
- गीर्वाणभारती का ? (क) मलयालभाषा (ख) संस्कृतभाषा (ग) तमिल् भाषा
- क्रियापदं चित्वा लिखत । (क) भवती (ख) गायति (ग) पुष्पाणि
ഈയാഴ്ചയിലെ വിജയി
Gayathri Viswanathan
“അഭിനന്ദനങ്ങള്”
ശരിയുത്തരങ്ങള് അയച്ചവര്:
- Gayathri Viswanathan
- Gouri Illikkal
- Adwaith C S
- Adidev C S
- Sreejith E S
- Kavitha Balakrishnan
- Antony madathiparambil
- Sangeetha Sandeep
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”