Daily Archives: April 1, 2018

प्रश्नपत्रसुरक्षाभङ्गः, झार्खण्ट् राज्ये १२ निगृहीताः।

नवदिल्ली- सी.बी.एस्.इ. संस्थायाः प्रश्नपत्रपतनघटनायां झार्खण्ट् राज्ये ए.बी.वी.पी. छात्रदलस्य नेत्रा सह १२ जनाः निगृहीताः। दलस्य छत्र जनपदीय सहयोजकेन सतीष् पाण्डया साकम् ऊर्जितपठनकेन्द्रस्य त्रयः प्रवर्तकाः नव छात्राश्च निगृहीतेषु अन्तर्भवन्ति। छत्र आरक्षिनियन्त्रकस्य अखिलेष् वार्यर् वर्यस्य नेतृत्वे शनिवासरे एव ते निगृहीताः। बीहार् राजधानीतः पट्नातः प्रश्नपत्राणि छत्रां प्राप्तानि। मार्च् २८ तमे प्रचलितस्य गणितपरीक्षायाः प्रश्नपत्रं बृहतीं संख्यां प्रतिफलत्वेन स्वीकृत्य २७ तमे दिनाङ्के सतीष् पाण्डे छात्रेभ्यः वितरितवान् इति आरक्षकाधिकारिणः वार्ताहरसम्मेळने उक्तवन्तः

मात्रा सह सुप्तं नवजातशिशुं वानरः अपाहरत्।

भुवनेश्वर् – मात्रा सह सुप्तं षोडशदिवसीयं शिशुम् अपहृत्य वानरः वनं गतः। ओडीषायां कटक् जनपदे तलाबस्त् ग्रामे एव इयं भीकरा घटना अजायत। शिशवे मार्गणं प्रचलन्नस्ति।

     वानरं शिशुमपहृतं दृष्ट्वा माता उच्चैः रुदित्वा जनान् आह्वयत्। तद्देशीयाः झटित्यागत्य अधिकृतान् सूचितवन्तः वनविभागाधिकारिभिः अग्निशमनसेनाधिकारिभिश्च मिलित्वा मार्गणमारब्धम्।

     अस्मिन् प्रदेशे दिवसेभ्यः पूर्वं केचन जनाः वानरैः आक्रमिताः आसन्। आवेदनं दत्वा अपि अधिकारिणः साहाय्यदानार्थं न सन्नह्यन्ते इति ग्रामवासिनाम् आरोपः।

सर्वेभ्यो मम वन्दनम् – 07-04-2018

 

नूतनी समस्या –

“सर्वेभ्यो मम वन्दनम्”

ഒന്നാംസ്ഥാനം

നവവാണീ നവാ രമ്യാ
നാനാരസസമായുതാ
തസ്യാശ്ചകര്‍മകാരേഭ്യഃ
സര്‍വേഭ്യോ മമ വന്ദനം

രാമചന്ദ്രൻ

“അഭിനന്ദനങ്ങൾ”

PRASNOTHARAM – 07-04-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. केरलीयचलचित्ररंगे समग्रयोगदानं पुरस्कृत्य दीयमानः जे सी डानियल् पुरस्कारः(२०१८) कस्मै घोषितः ?(क) श्रीकुमारन् तम्पी वर्याय (ख)अटूर् गोपालकृष्णन् वर्याय (ग)एम् टी वासुदेवन् वर्याय
  2.  सन्तोष् ट्रोफीं(२०१८) प्राप्तस्य गणस्य नाम । (क) कोल्कत्ता (ख) बङ्गाल् (ग) केरलम्
  3. किरणः  समानार्थं पदम् ।(क)मयूरः (ख)करः (ग)मयूखः
  4. मन्त्री ——- पारितोषिकं ददाति ।(क) सैनिकाय (ख) सैनिकः (ग) सैनिके
  5. यूयं किमर्थं ———। (क) पठन्ति (ख) पठामः (ग) पठथ
  6. पटोलः  (क) शाकम् (ख)पुष्पम् (ग)फलम्
  7. खलु +अहम् =———–। (क) खलोहम् (ख)खल्वहम् (ग)खलोsहम्
  8. बालाः उच्चैः ———। (क)हसति (ख)हसतः (ग) हसन्ति
  9. अद्य रविवासरः।तर्हि परश्वः कः वासरः?(क) सोमवासरः (ख)मङ्गलवासरः(ग)बुधवासरः
  10. संख्यां  लिखतु –५० (क)पञ्चाशत् (ख)पञ्चशतम् (ग)पञ्चदश

ഈയാഴ്ചയിലെ വിജയി

ARCHANA.K. V., Kannur

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങളയച്ചവര്‍:

  1. GOKUL P
  2. RAJANI P G
  3. ANJANA M S
  4. SMITHA NAMBIAR
  5. RAJALAKSHMI A
  6. AMRUTHA C J
  7. ADIDEV C S
  8. SATHWIK BIJOY
  9. NANDAGOPAN R
  10. SUNILKUMAR
  11. SUNIL V J
  12. GRACY PHILIP

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”