Monthly Archives: March 2018

सन्तोष् चषक पादकन्दुकक्रीडायां केरलम् अन्तिमचरणं प्राविशत्।

कोल्कत्ता – केरलं सन्तोष् चषक पादकन्दुकक्रीडायाः अन्तिमचरणस्पर्धां प्राविशत्। एकपक्षीयेन एकेनैव लक्ष्यकन्दुकेन मिसोरां राज्यं पराजित्यैव केरलम् अन्तिम-चरणस्पर्धायां प्रविशति। केरलस्य कृते वी.के. अफ्दल् लक्ष्यकन्दुकमवाप्तवान्। इतरे उपान्तचरणे करणाटकं पराजित्य वंगदेशम् अन्तिमचरणं प्राप। रविवासरे अन्तिमस्पर्धा भविता तत्र केरलं वंगदेशं च क्रीडाङ्गणे परस्परं स्पर्धिष्यतः।

     प्राथमिकप्रतियोगितायां वंगदेशमपि पराजित्य विना पराभवमेव केरलम् अन्तिमस्पर्धां प्रविशदस्ति।

     २००४ तमे वर्षे पञ्चाबं पराजित्य केरलेन सन्तोष् चषकः स्वायत्तीकृतः आसीत्। पुनः २०१३ तमे वर्षे अन्तिमस्पर्धां प्रविश्यापि षूट् औट् द्वारा पराभवत्। १९७३ तमे वर्षे केरलं प्रथमवारम् इमं चषकं सम्पादयति स्म।

 

जि-साट् ६ए उपग्रहस्य विक्षेपणम् अद्य।

हैदराबाद् – जङ्गमदूरवाणी-सूचनासाङ्केतिकरंगं प्रबलीकर्तुं भारतस्य नूतनः सूचनाप्रसारणोपग्रहः जि-साट ६ए अद्य उद्गमिष्यति। सायं ४.५६ वादने श्रीहरिक्कोट्टा सतीष् जवान् शून्याकाशनिरीक्षणकेन्द्रात् अस्य विक्षेपणं भविष्यति। GSLV -F8 एव उपग्रहं भ्रमणपथं प्रापयति। जि.एस्.एल्.वी.-एफ् ८ इति प्रक्षेपिण्याः द्वादशतमं विक्षेपणं भवतीदम्। द्वादशवर्षायुष्मतः अस्योपग्रहस्य भारः २ टणमितं भवति।

चलचित्रमण्डले श्रीकुमारन् तम्पीवर्याय जे.सी. डानियेल् पुरस्कारः।@

तिरुवनन्तपुरम्- केरलीयचलच्चित्ररंगे समग्रयोगदानं पुरस्कृत्य दीयमानः जे.सी. डानियेल् पुरस्कारः विख्यातनिदेशकाय श्रीकुमारन् तम्पी वर्याय घोषितः। चलचित्रनिदेशकः, निर्माता, गानकारः, संगीतनिदेशकः इत्यादिषु रंगेषु स्वकीयां प्रतिभां प्रकाशयन्नस्ति अयं महानुभावः।

     आगामिनि मासे कोल्लं नगरे सम्पत्स्यमाने अधिवेशने पुरस्कारसमर्पणं भविता इति पुरस्कारं घोषयन् मन्त्री ए.के. बालन् महाशयः अवदत्। पञ्चलक्षरूप्यकाणि फलकं प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवति।

     महानटस्य मधुवर्यस्य आध्यक्ष्ये निदेशकः सत्यन् अन्तिक्काट्, निर्माता सियाद् कोक्कर्, चलचित्र अक्कादमी अध्यक्षः कमल् प्रभृतयः सम्भूय पुरस्काराय श्रीकुमारन् तम्पी वर्यम् अचिन्वन्।

धर्मनिरपेक्षकेरलम्, जाति-धर्मपङ्तिम् अपूर्यमाणानां छात्राणां संख्यायां वर्धनम्।

तिरुवनन्तपुरम्- राज्ये विद्यालयेषु जाति-धर्मपङ्क्तिम् अपूर्यमाणानां छात्राणां संख्या वर्धते। ९२०९ विद्यालयेषु प्रथमतः द्वादशपर्यन्तं कक्ष्यासु एतादृशाः १२४१४७ छात्राः प्रवेशनमाप्ताः।
गतदिने मलप्पुरं अरीक्कोट् देशे विजातीय विवाहकारणात् पिता पुत्रीं जघान इति घटना सर्वनिन्दिता आसीत्।

संस्कृतप्रचारार्थं प्रामुख्यं दत्वा कालटी संस्कृत-विश्वविद्यालयस्य अर्थसङ्कल्पः।

कालटी- संस्कृतप्रचारः गवेषणविकासः अङ्कीयवत्करणं च लक्ष्यीकृत्य संस्कृतसर्वकलाशालायाः अर्थसङ्कल्पः। २०८.३९ कोटि रूप्यकाणाम् आयः २२२.१२ केटि रूप्यकाणां व्ययः १३.७८ कोटि रूप्यकाणां न्यूनतां च प्रतिफलन्तम् अर्थसङ्कल्पं कुलपतेः डो. धर्मराज अटाट् वर्यस्य आध्यक्ष्ये आयोजिते सिन्डिक्केट् अधिवेशने धनविनियोग-स्थिरसमित्यायोजिका डो. मिनी वर्या प्रास्तौत्।

 संस्कृतं सर्वेषाम् इति सन्देशेन संस्कृतप्रचारणपरियोजनायाः कृते एककोटिरूप्यकाणि पृथक्कृतानि। केरलस्थेषु शिक्षोपमण्डलेषु प्रत्युपमण्डलं त्रीन् विद्यालयान् चित्वा तत्र शिक्षकान् नियोज्य कक्ष्यां प्रचालयिष्यति। विद्यालयीय छात्राणां कृते वैदुष्यवृत्तिं दास्यति। आदर्शविद्यालयानां प्रवर्तनानि विपुलीकरिष्यति। मण्डलास्थानेषु एकदिनसंस्कृतसंगोष्ठीं चालयिष्यति। अनन्तपुरीतः कासरगोड् पर्यन्तं संस्कृतसन्देशयात्रां च आयोजयिष्यति।

     रजतजयन्तीमालक्ष्य भारतस्थान् संस्कृतसर्वकलाशाला कुलपतीन् समायोज्य संस्कृतशिक्षासम्मेलनं प्रचालयिष्यति संस्कृते संघिक-अन्तर्जाल-पाठ्यक्रमः अस्मिन्नेव वर्षे समायोक्ष्यते। विद्यालयीय-कलालयीय-अध्यापकेभ्य नवीकरणवर्गः प्रचाल्यते।

  रजतजयन्तीवर्षे २५ पुस्तकानि तथा सर्वेषां पठनविभागानां सम्पुटानि च प्रसाधयिष्यति। एते अर्थसङ्कल्पस्य केचन निर्देशा एव।

राष्ट्रे सर्वाणि यानानि आधारपत्रेण बन्धितुं गृहमन्त्रालयस्य उद्यमः।

नवदिल्ली-  वीथ्यां गच्छन्ती सर्वाणि यानानि तेषां स्वामिनाम् आधारपत्रेण योजनार्थं केन्द्रीय गृहमन्त्रालयस्योद्यमः। एतत्सम्बन्धि पठनं कृतवत्याः समितेः सूचनानुसारमेवायमुद्यमः। राष्ट्रस्थानांसर्वेषां यानानां विशदांशान् सञ्चेतुं केन्द्रीकृतां सज्जतामावश्यकमिति सूचना। अस्य पूर्णं प्रयोजं लभेत चेत् आधारसंयेजनमवश्यंभावि। अधुनायानानां विशदांशान् तत्तद्राज्ये एव लभते।

भक्षणं स्वास्थ्यकारणम् – 31-03-2018

 

नूतनी समस्या –

“भक्षणं स्वास्थ्यकारणम्”

ഒന്നാംസ്ഥാനം

ഗ്രീഷ്മേ കഠിനതാപേ തു
കർകടീ മധുകർകടീ
കൂശ്മാണ്ഡം ചൈവ ശാകാദി
ഭക്ഷണം സ്വാസ്ഥ്യകാരണം

-ജ്യോത്സ്ന

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 31-03-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. केरल राज्यस्य राज्यफलं किम् ? (क) पनसफलम् (ख) आम्रफलम् (ग) अनानसफलम्
  2. लोकजलदिनं कस्मिन् दिने भवति ? (क) मार्च २१ (ख) मार्च २२ (ग) मार्च २३
  3. दत्तेषु बहुवचनरूपं लिखत ।(क) ददतु (ख)ददातु (ग) पठतु
  4.  ——  पुष्पम् । (क) एषः (ख) एषा (ग) एतत्
  5. सः बालकः ——–। (क) अस्ति (ख)अस्मि (ग) असि
  6. ते बालिके ———। (क) अस्ति (ख) स्तः (ग) सन्ति
  7. अहं प्रातः ५ वादने ——–। (क) उत्तिष्ठसि (ख) उत्तिष्ठामि (ग) उत्तिष्ठति
  8. वयं संस्कृतं ————। (क) जानामि (ख) जानीवः (ग)जानीमः
  9. भवान् श्लोकम् ———-। (क) अवदत् (ख) अवदन् (ग) अवदः
  10. वयल्किलि समरम्” कस्यां जिल्लायां भवति । (क) कण्णूर् (ख) कोषिक्कोट् (ग) वयनाट्

 

ഈയാഴ്ചയിലെ വിജയി

സീത.കെ,കപോതൻ

“അഭിനന്ദനങ്ങള്‍”

എല്ലാ ഉത്തരങ്ങളും ശരിയാക്കിയവര്‍:

  • സീത.കെ,കപോതൻ
  • രാജലക്ഷ്മി എ.

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

आवश्यकानि अवाप्तुम् आमरणं समरमिति अन्ना हसारे।

नवदिल्ली- आवश्यकानि अवाप्तुं मरणपर्यन्तं समरं करोमि इति अन्ना हसारे वर्यः। लोकपाल् देयकम् आयोजयितुं केन्द्रप्रशासनस्य तन्द्रा वाग्दानलङ्घनमेव, तद्वारा अत्याचारिणां साहाय्यं करोति केन्द्रप्रशासनमित्यपि स अवोचत्।दिल्ल्यां रामलीलाभूमिकायां सम्पत्स्यमाने समरे राजनैतिकदलानि भागं न भाजयति इति स उक्तवान्। राजनैतिकदलानि निर्वाचने प्रत्याशीकृतानि सङ्घानि च अस्यां वेदिकायां नाह्वयति।लोकपाल देयकस्य प्रायोगिकीकरणं कृषकसमस्यानां परिहारः इत्यादीनि आवश्यकानि उन्नीय रामलीला वेदिकायाम् अारब्धः अन्ना हसारे वर्यस्य उपवाससमरः अद्य द्वितीयदिनमुपगतः

विद्यालयेषु कलालयेषु वा मम पुस्तकानि न पाठनीयानि – एम.टी.

तिरुवनन्तपुरम्- विद्यालयेषु कलालयेषु वा मम पुस्तकानि न पाठयेयुः इति विवादेन सह सुप्रसिद्धः कैरलीसाहित्यकारः ज्ञानपीठविजेता च एं.टी. वासुदेवन् नायर् वर्यः। पाठ्यपद्धतौ साहित्यपठनाय अवकाशः नास्तीत्यतः स एवमभिप्रैति स्म।

     पाठ्यपद्धतीतः साहित्यस्य दूरीकरणमेव अधुना पश्यति। अद्यतने काले साहित्ये भाषायां च अवश्यं परिज्ञानं  छात्राणां नास्ति। अस्मिन् विषये बालचन्द्रन् चुल्लिक्काट् इति कविवर्यस्याभिप्रायः सत्यमेवेति एं.टी. वर्यः विशदमकरोत्। स्वकीयां कवितां छात्रान् न पाठयेत्, स्वरचनासु गवेषणमपि नानुवदनीयमिति बालचन्द्रन् चुल्लिक्काट् वर्यः पूर्वम् अभिप्रैति स्म। अध्यापकनियुक्तौ धनदानं छात्रेभ्यः अधिकाङ्कदानं च विरुद्ध्यैव तस्येयं प्रस्तावना जाता।