Daily Archives: April 8, 2018
चञ्चलं जनमानसम् – 14-04-2018
नूतनी समस्या –
“चञ्चलं जनमानसम्”
ഒന്നാംസ്ഥാനം
कठुवा बालिका चाद्य
पीडिता हन्त! मारिता।
धर्मिणां भारतीयानां
चञ्चलं जनमानसम्।।
സുരേഷ്ബാബു
“അഭിനന്ദനങ്ങൾ”
सिरियादेशे रासायुधप्रयोगः, ७० जनाः मारिताः, शिष्टेषु केचन गुरुतरावस्थायाम्।
दमास्कस् – सिरियायां पुनः रासायुधप्रयोगः। विमतमेखलायां दूमायां सञ्जाते आक्रमणे ७० जनाः मारिताः। तेषु स्त्रियः शिशवश्चान्तर्भवन्ति। शनिवासरे रात्रावेव रासायुधप्रयोगः सञ्जातः। आक्रमणे नैके जनाः रुग्णाश्च सञ्जाताः।
क्लोरिन् वातकसंयुक्तमेव आक्रमणाय उपयुक्तमिति संशयः।वदनात् फेनप्रस्रवणरूपाणि शिशूनां चित्राणि चलचित्राणि च नवमाध्यमेषु बहुप्रचारितानि दृश्यन्ते।
प्रदेशात् जनाः अपवारयन्तः सन्ति। रुग्णेषु बहूनाम् अवस्था गुरुतरा इत्यतः मृत्युसंख्यायां वर्धना जायेतेति वैट् हेल्मेट् संस्था आवेदयत्। परन्तु रासायुधप्रयोगस्य आधिकारिकं स्थिरीकरणं नागतम्।
PRASNOTHARAM 14-04-2018
प्रश्नोत्तरम्।
- लोकार्योग्यदिनम् कस्मिन् दिनाङ्के भवति ? (क) एप्रिल् ६ (ख) एप्रिल् ७ (ग) एप्रिल् ८
- २०१८ वर्षस्य कोमण् वेल्त् गेयिम्स् ( Common Wealth Games) कस्मिन् राष्ट्रे प्रचलति ? (क) श्रीलङ्का (ख) मलेष्या (ग) आस्ट्रेलिया
- कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ४८ किलोग्राम् भारोद्वहन मत्सरे प्रथम सुवर्णम् प्राप्ता भारतीयवनिता का ? (क) मीराभाय् चानू (ख) पापुव न्यूगिनि (ग) सञ्चिता चानू
- कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ५३ किलोग्राम् भारोद्वहन मत्सरे सुवर्णम् प्राप्ता भारतीयवनिता का ? (क)मीराभाय् चानू (ख) पापुव न्यूगिनि (ग) सञ्चिता चानू
- कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ६९ किलोग्राम् भारोद्वहन मत्सरे सुवर्णम् प्राप्तःभारतीयः कः ? (क)पूनं यादवः (ख) वेङ्कट्ट राहुलः (ग) सतीष् कुमारः
- कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ७७ किलोग्राम् भारोद्वहन मत्सरे सुवर्णम् प्राप्तः भारतीयः कः ? (क)पूनं यादवः (ख) वेङ्कट्ट राहुलः (ग) सतीष् कुमारः
- कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् ८५ किलोग्राम् भारोद्वहन मत्सरे सुवर्णम् प्राप्तः भारतीयः कः ? (क) पूनं यादवः (ख) वेङ्कट्ट राहुलः (ग) सतीष् कुमारः
- कोमण् वेल्त् गेयिम्स् (२०१८) स्पर्धायाम् १० मीटर् एयर् पिस्टल् (10 m Air Pistol ) मत्सरे सुवर्णम् प्राप्ता भारतीयवनिता का ? (क) मनु भाक्कर् (ख) हीना (ग) एलीना
- बुद्धं शरणं गच्छामि । अत्र कर्ता कः ? (क) अहम् (ख) त्वम् (ग) सः
- संस्कृतभाषायां कति विभक्तयः सन्ति ? (क) पञ्च (ख) षट् (ग) सप्त
ഈയാഴ്ചയിലെ വിജയി
Sangeetha Sandeep , Ernakulam
“അഭിനന്ദനങ്ങൾ”
ശരിയുത്തരങ്ങൾ:
1 ഏപ്രിൽ 7
2 ആസ്ട്രേലിയ
3 മീരാഭായ് ചാനു
4 സഞ്ജിത ചാനു
5 പൂനം യാദവ
6 സതീഷ് കുമാർ
7 വെങ്കട്ട രാഹുല
8 മനു ഭാക്കർ
9 അഹം
10 സപ്ത
“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ“
जिह्वाप्रसादः – विजयन् वि पट्टाम्बि।
सर्वेन्द्रियेषु प्रसादभूता
जिह्वा जनानां मुखोपविष्टा
जीयादनल्पा विवदमाना
खादनकर्मणि नित्यतृप्ता।
यान्यसौ वस्तूनि चात्तिमोदा-
न्नास्त्यत्र दोषो हा सद्यःपाती
यान्यसौ भाषते क्षिप्रकोपा-
दापत्प्रदा सैषा नास्ति तर्कः।
कारागृहावासदण्डदोषान्
भौतिकमानसदुःखजालान्
सर्वान् विधत्ते रसनेन्द्रियं
ज्येष्ठाविलासात् हा हन्त कष्टम्।
सत्यं वदत हितं वदत
सत्यानुरूपं प्रियं वदत
सौभाग्यमत्रैव लभ्यमहो
जिह्वाप्रसादेन सज्जनेभ्यः।