Monthly Archives: December 2017
PRASNOTHARAM 30-12-2017
प्रश्नोत्तरम्।
- प्रयोजनमनुद्दि्श्य ————- न प्रवर्तते (क) मन्दोsपि (ख) धीरोsपि (ग) उत्साही
- अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तम् (क) कल्पः (ख) छन्दः (ग) निरुक्तम्
- अष्टाध्याय्याः प्रथमं सूत्रम् (क) हलन्त्यम् (ख) आद्गुणः (ग) वृद्धिरादैच्
- सांख्यदर्शने प्रमाणानि (क) ६ (ख) ४ (ग) ३
- पृथिव्याः स्वभावः (क) शब्दः (ख) गन्धः (ग) स्पर्शः
- दिलीपस्य महिषी (क) सुदक्षिणा (ख) सीता (ग) माण्डवी
- ———वाक्यं काव्यम् ।(क) भावात्मकम् (ख) रसात्मकम् (ग) लयात्मकम्
- ——— जतजास्ततोगौ ।(क) इन्द्रवज्रा (ख) शालिनी (ग) उपेन्द्रवज्रा
- रूपरहितस्पर्शवान् ———-। (क) तेजः (ख) वायुः (ग) आकाशः
- राजपुरुषः इति – (क) तृतीयातत्पुरुषः (ख) षष्ठीतत्पुरुषः (ग) सप्तमीतत्पुरुषः
ഈയാഴ്ചയിലെ വിജയി
ADIDEV C S, HARISREE VIDYANIKETHAN, THAZHEKKAD
“അഭിനന്ദനങ്ങള്”
ശരിയുത്തരമയച്ചവര്:
- ADIDEV C S
- ROHITH M S NHSS IRINJLAKUDA
- VARSHA S SREEKRISHNAPURM
- DARSHNALAKSHMI V R SREEKRISHNAPURAM
- RAJALAKSHMI A NHSS IRINJALAKUDA
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
विद्यया विनयान्वितः – 30-12-2017
नूतनी समस्या –
“विद्यया विनयान्वितः”
Last date: 30-12-2017
ഒന്നാംസ്ഥാനം
സ ഏവ പൂജനീയോ യ:
വിദ്യാം ശാസതി സദ്ഗുരു:
സ ശിഷ്യ: ശോഭതേ യസ്തു
വിദ്യയാ വിനയാന്വിത:
ശങ്കരനാരായണൻ
“വിജയികള്ക്ക് അഭിനന്ദനങ്ങൾ”
पूर्णवेदपुर्यां वार्षिकशास्त्रसदः।
तृप्पूणित्तुरा – गोश्रीपुरराजपालेन शास्त्रपोषणाय समारब्धस्य विद्वत् सदसः नवतितमः शास्त्रसदः अस्य मासस्य २६ तमे दिने प्रारभ्स्यते। २६तमे दिने छात्राणां कृते पद्यालापनस्पर्धा, अक्षरश्लोकस्पर्धा, प्रश्नोत्तरस्पर्धा च आयोजिता। २७तः २९यावत् वाक्यार्थविचारसत्रः यस्मिन् भारतस्य प्रसिद्धाः सस्कृतशास्त्रविचक्षणाः भागभाजिनो भवन्ति। सायंकाले सांस्कृतिककार्यक्रमाणि च संयोजितानि। गुरुस्मरणं च २७ तमे दिने भविष्यति।
गणतन्त्रदिवस खलूरिकायां केरलस्यापि प्रातिनिध्यम्।
नवदिल्ली – वर्षचतुष्टयानन्तरं गणतन्त्रदिवसीय खलूरिकायां केरलस्यापि नियोगः। अस्मिन् वर्षे केरलीया केट्टुकाय्चा नामिका अनुष्ठानकला एव अवतार्यते। असम्, छत्तीस्गड्, गुजरात्, हिमाचल् प्रदेश्, जम्मू-काश्मीर्, कर्णाटका, मध्यप्रदेश्, महाराष्ट्रा, मणिप्पूर्, पञ्चाब्, त्रिपुरा, उत्तराखण्ड् एतानि राज्यानि लक्षद्वीप् च अस्मिन् वर्षे केरलेन समं भागं भजन्ते।
२०१३ तमे वर्षे गणतन्त्रदिवसखलूरिकायां निश्चलदृश्यविभागे केरलेन सुवर्णपतकं प्राप्तमासीत्। तदनन्तरम् अस्मिन् वर्षे एव अस्मिन् कार्यक्रमे केरलम् अनुमतम् भवति।
माधवगणितपुरस्कारः अस्मिन् वर्षे मुम्बै ऐ.ऐ.टी. प्रवाचकाय डो.के. रामसुब्रह्मण्याय।
इरिङालक्कुटा – संग्राममाधव-गणितकेन्द्रेण आयोजितः माधवगणितपुरस्कारम् अस्मिन् वर्षे मुम्बै ऐ.ऐ.टी. प्रवाचकाय डो.के. रामसुब्रह्मण्याय समार्पयत्। केरलीयगणितमधिकृत्य गवेषणाय नेतृरूपं योगदानं कुर्वन्नस्ति डो. सुब्रह्मण्यम्।राष्ट्रिय गणिदिनमनुबन्ध्य इरिङ्ङालक्कुटायां पुरस्कारं समार्पयत्। केन्द्र-पर्यटनमन्त्री अल्फोण्स् कण्णन्तानं विशिष्टातिथिरासीत्।
शिक्षा संस्कृति उत्थान् न्यास् देशीय वेदगणितप्रमुख् डो. कैलास् विश्वकर्मापि मुख्यातिथिति रूपेण उपस्थितः आसीत्। कोच्ची मत्स्य-समुद्रानुसन्धान विश्वविद्यालयस्य उपकुलपतिः डो. ए. रामचन्द्रन्, डो. वी.पी. एन् नम्पूतिरी प्रभृतयः भागमभजत। अधिवेशनेन समं युवगणितप्रतिभा सङ्गममपि आयोजिता। राज्यस्तरीय गणितशास्त्रविजयिनः सम्मेलने आदृताः अभवन्। २.३० वादने छात्राणां कृते गणितप्रश्नोत्तरस्पर्धापि चालिता।
माधवाचार्यस्य जन्मगृहे कल्लेट्टुंकरा इरिङ्ङालप्पिल्लिमनायां प्रचालिते माधवानुस्मरणसम्मेलने सभासदस्यः प्रोफ. रिच्चार्ट हे वर्यः मुख्यतिथिरासीत्। जन्मगृहमधिकृत्य आचार्यस्य सूचनानुसारं प्रतीकरूपेण गृहसमीपं वृक्षरोपणं कृतम्। अस्मिन् समारोहे शिक्षा संस्कृति उत्थान् न्यास् राज्याध्यक्षः डो. एन्. सी. इन्दुचूडः पौरप्रमुखाः जनप्रतिनिधयश्च भागमभजत।
‘തീരെച്ചറിയ ശബ്ദങ്ങള്’ ഒ.എന്.വി. കവിതയുടെ സംസ്കൃതാനുവാദം – ശങ്കരനാരായണന്
सुसूक्ष्मतराः स्वनाः।തീരെച്ചറിയ ശബ്ദങ്ങള് ഒ.എന്.വി. കവിതയുടെ സംസ്കൃതാനുവാദം – ശങ്കരനാരായണന്
।। सुसूक्ष्मतमाः स्वनाः।।
– शङ्करनारायणः,पूर्णवेदपुरी |
मम इष्टं मेघमुरजवादन- सहितमासारसुसान्द्रनिस्वनम् । चल्लत्तरङ्गसागरगीतं तथा कूलङ्कषापगासुरम्यमन्त्रणम्।। मदगजस्येव गिरेरवतीर्णं प्रचण्डमारुतप्रताण्डवघोषम् ।। स्वमातृराजस्य स्वतन्त्रतावाप्त्यै समरं कुर्वतां सुदृढघोषणम्।। मषिकाझंकारत्रसन्नीलवन-(भ्रमरझंकार..) सुदारुनिर्मिततमोमयरूपाः द्रुतपदगानलहरीमापीय करोति नर्तनं, ममेष्टा सा ध्वनिः।। हिमगिरिशृङ्गस्युपरि च रुद्र- नटनकेलिषु डमरुवैखरी।। महाकलशे तु प्रहृत्यतो काला- यसस्यापि स्निग्धगुणप्रदो रवः।। तुरगवाहिनीखुरोद्धतो रवः दिशाप्रकम्पकं पटहताडनम्।। मम ह्येते प्रियाः, प्रवर्षन्तु मेघाः तरङ्गाः गर्जन्तु प्रवहन्तु नद्यः।। क्वचिक्वचित् स्वेच्छं विहरताद्वायुः समस्तलोकोfपि स्वतन्त्रतामेयात्।। तमालं काननं वहतात्पल्लवम् पुराणानि तथा नवं वीर्यं दद्यात्।। मम ह्येते प्रियाः, परन्त्वतिसूक्ष्म- स्वनलवोपिf मे ततो प्रियतरः।। हिमकणिकानां विटपपर्णेभ्यो पतने यत्स्वनं, रुचिरं तद्धि मे ।। तरङ्गतुङ्गालिङ्गितसिकतस्य रतिमनोहरसुनिश्वासरवः।। विटपकेशेषु प्रणयिनमिव सुखस्पर्शं कृत्वा रममाणस्य तत् सदागतेः स तु प्रणयमर्मरो सुसूक्ष्मोfपि रवः सदा स मे प्रियः।। सरसमसृणप्रणयार्द्रं कर वलयान्निर्गतं तरलनिस्वनम्।। ज्वरतप्तशिशोः करस्पर्शे श्रुतः अतिसूक्ष्मः नाडीस्वरः स मे प्रियः।। महन्नाट्यं वितन्वतान्नूपुरात्तु पतितस्य मणेः सदीनः गद्गदः।। मथनान्तलब्धममृतं केनापि हृतमिति चिन्ताजनितनिश्वासः।। स्मृतिष्वतितरां सुखदं तत्स्वनम् उदकबिन्दुवत् क्षणस्थिरं स्वनम्।। वियोगवेदनासहितं रोदनम् विधिर्ममेति तत्समाश्वासस्वरम्।। अकथिते… किमप्यकथितेपि ते मुखे विकसिते यदार्द्रे त्वन्नेत्रे।। पदे स्खलितेपि निगूढं मां किञ्चित् भणतीव भाति तव मौनस्वरम्।। मधुरोfप्यस्तु वा परुषोfथवास्तु इहैव वर्तन्ते ह्यतिसूक्ष्माः शब्दाः।। प्रियमित्र मम हृदयभित्तौ ते पतन्पतन्क्षणाच्छतशतायन्ते।। महाध्ननिरिव प्रवर्धन्ते रवाः महोदधिरिव करोति गर्जनम्।। मम त्वसह्या हि हृदयस्था व्यथा वद प्रिय – कस्य सुधास्वादो ह्यत्र ? |
തീരെ ചെറിയ ശബ്ദങ്ങള് – O N V കുറുപ്പ് |
എനിക്കിഷ്ടം മുകില്പ്പെരുമ്പറ കൊട്ടി തിമിര്ത്തു പെയ്യുന്ന മഴയുടെ ശബ്ദം! തിരയടിക്കുന്ന കടലിന്റെ ശബ്ദം! കര കവിഞ്ഞു പോം നദിയുടെ ശബ്ദം!! മദഗജംപോലെ മലയിറങ്ങി വ– ന്നിളകിയാടുന്ന കൊടുംകാറ്റിന് ശബ്ദം! സ്വമാതൃഭൂവിന്റെസ്വതന്ത്രതക്കായി പൊരുതുന്നോര് പാടും കരുത്തെഴും ശബ്ദം! കടന്നല്മൂളുന്നോരിരുണ്ട കാട്ടിലെ കരിവീട്ടി കടഞ്ഞെടുത്ത രൂപങ്ങള് ദ്രുതപദമേതോലഹരിയിലാടി– ത്തിമിര്ക്കുമാസുരഗഭീരമാം നാദം! ഹിമഗിരിമുടി മുകളിലായ് രുദ്ര– നടനകേളി തന് ഡമരുകശബ്ദം! ഒരു പെരുംകുടം അടിച്ചടിച്ചു കാ– രിരുമ്പിനെ ക്കൂടിമെരുക്കിടും സ്വരം! കുതിരകള് കുളമ്പടിച്ചു പോം ശബ്ദം! കതിനകള് പ്പൊട്ടി മുഴങ്ങിടും ശബ്ദം! എനിക്കിവയിഷ്ടം, മഴ തിമിര്ക്കട്ടെ തിരകളാര്ക്കട്ടെ നദിയൊഴുകട്ടെ ഇടക്കിടെ കാറ്റും മദിച്ചു പായട്ടെ സമസ്തലോകവും സ്വതന്ത്രമാവട്ടെ ഇരുണ്ട കാടുകള് തളിര്ക്കട്ടെ –പഴം– കഥ പകരട്ടെപുതിയ വീര്യങ്ങള്! ഇവയെല്ലാമെന്നുമെനിക്കിഷ്ടം പക്ഷേ പ്രിയതരം തീരെ ചെറിയ ശബ്ദങ്ങള് ഇലകളില് നിന്നു ഹിമകണികകള് തെരുതെരെയിറ്റിറ്റുതിരും നിസ്വനം! ഒരു തിര വന്നു മണല്ത്തരികളെ കിരുകിരെക്കെട്ടിപ്പുണരും സീല്ക്കാരം! ഒരു തരുവിന്റെ മുടിത്തഴ മെല്ലെ വകഞ്ഞു പോം കാറ്റിന് പ്രണയമര്മ്മരം! അരുമയായ് വന്നു തഴുകും കൈയിലെ തരിവളകള് തന് തരളനിസ്വനം! പനിക്കും കുഞ്ഞിന്റെ മണിബന്ധത്തില് കൈ– വിരലമര്ത്തുമ്പോള് മിടിക്കും നിസ്വനം! അരങ്ങിലാടുന്ന ചിലങ്കയില് നിന്നു– മടര്ന്നു വീഴുന്ന മണി തന് ഗദ്ഗദം കടഞ്ഞെടുത്തതാമമൃതം മറ്റാരോ കവര്ന്നു പോയെന്ന നിനവിന് നിശ്വാസം! സ്മൃതികളിലേതോ സുഖദമാം സ്വരം ഉദകപ്പോളയൊന്നടരുംനിസ്വനം വിട പറയുമ്പോള് വിതുമ്പിടുംസ്വരം വിധിയെയോര്ത്തു വീര്പ്പിടും മൃദു സ്വരം പറയാതെ,യൊന്നും പറയാതെ ഒരു കവിള് തുടുക്കുമ്പോള് മിഴി നനയുമ്പോള് കഴലിടറുമ്പോള് നിഗൂഢമായെന്തോ പറഞ്ഞതായ് തോന്നും മൊഴികള് തന് സ്വനം മധുരമായിടാംപരുഷമായിടാം ഇവിടെഴും തീരെച്ചെറിയ ശബ്ദങ്ങള് പ്രിയസുഹൃത്തേ എന് ഹൃദയഭിത്തിയില് പതിക്കെനൂറുനൂറിരട്ടിയാവുന്നു അവ വളരുന്നൂ മഹാധ്വനികളായ് അവയിരമ്പുന്നൂ മഹാസമുദ്രമായ് എനിക്കു താങ്ങുവാനരുതെന് നെഞ്ചിലെ കടച്ചില് – ആര,തിലമൃതംതേടുന്നൂ ? |
राष्ट्रिय वरिष्ठकायिकक्रीडायां केरलस्य किरीटम्।
केन्द्र-साहित्य-अक्कादमी पुरस्कारः के.पी. रामनुण्णी वर्याय।
नवदिल्ली – केन्द्र साहित्य अक्कादमी पुरस्काराः घोषिताः। कैरलीविभागे विख्यातः नोवल् कारः के.पी.रामनुण्णी वर्यः पुरस्काराय चितः। तस्य “दैवत्तिन्टे पुस्तकम्” इति आख्यायिका पुस्काराय अर्हा अभवत्। पूर्वं कैरलीभाषायां विलासिनी इति तूलिकानामधारी एं.के. मेनोन् (अवकाशिकळ् )तथा तकषी शिवशङ्करपिल्ला(कयर् ) च नोवल् विभागे पुरस्कृतावास्ताम्। दैवत्तिन्टे पुस्तकम् इति नोवले इस्लां धर्मप्रवाचकस्य मुहम्मद् नबि वर्यस्य जीवितसम्बन्धिनी कथा आख्याता। मुहम्मद् नबिः कृष्णम् इक्का इति सम्बेधयति, कृष्णश्च नबिं मुत्ते इति च। एतत् केरलीयसभ्यतायाः निदर्शनभूतमिति अस्माकम् अभिमानास्पदं भवति।
वित्तकोशे महती अग्निबाधा
कोच्ची – एरणाकुलं वित्तकोशप्रासादे महती अग्निबाधा। टी.डी. रोड् समीपस्थस्य बाङ्क् आफ् बरोडा नामकस्य वित्तकोशस्य प्रासादे प्रातः ६.३० वादने एव अग्निबाधा दृष्टा। अग्निशमनसेना आगत्य अग्निं निरवापत्। परन्तु एरणाकुलं मेखला कार्यालयस्य एको भागः पूर्णतया अग्निसादभवत्।
विद्युद् बन्धे सञ्जाता हानिरेव अग्निबाधायाः कारणमिति प्राथमिकं निगमनम्। केरल राज्यवैद्युतिनिगमस्य अधिकारिणः आगत्य परिशोधनामकुर्वन्। अग्निबाधया महान् नष्टः सञ्जात इति वित्तकोशाधिकृतैः उक्तम्।
देशाभिमानी साहित्यपुरस्कारः कथाकाराय टी. पद्मनाभाय।
कण्णूर्- अस्य वर्षस्य देशाभिमानी साहित्यपुरस्काराय विख्यातः कथाकारः टी. पद्मनाभः अर्हो/भवत्। द्विलक्षं रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारः।
देशाभिमानी मुख्यसम्पादकः एं.वी. गोविन्दः कण्णूर् पत्तने वार्तासम्मेलने पुरस्कारं प्रख्यापितवान्। आगामिनि मार्च् मासे कण्णूर् नगरे सम्पत्स्यमाने एकवारात्मके साहित्योत्सवे मुख्यमन्त्री पिणरायि विजयः पुरस्कारं प्रदास्यति। गतवर्षे एव देशाभिमानी साहित्यपुरस्कारः आयोजितः। प्रथमं पुरस्कारम् एं.टी. वासुदेवन् नायर् वर्याय अदात्। साहित्यरङ्गाय समग्रयोगदानमादृत्य पुरस्कारः दीयते।