Daily Archives: December 20, 2017
देशाभिमानी साहित्यपुरस्कारः कथाकाराय टी. पद्मनाभाय।
कण्णूर्- अस्य वर्षस्य देशाभिमानी साहित्यपुरस्काराय विख्यातः कथाकारः टी. पद्मनाभः अर्हो/भवत्। द्विलक्षं रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारः।
देशाभिमानी मुख्यसम्पादकः एं.वी. गोविन्दः कण्णूर् पत्तने वार्तासम्मेलने पुरस्कारं प्रख्यापितवान्। आगामिनि मार्च् मासे कण्णूर् नगरे सम्पत्स्यमाने एकवारात्मके साहित्योत्सवे मुख्यमन्त्री पिणरायि विजयः पुरस्कारं प्रदास्यति। गतवर्षे एव देशाभिमानी साहित्यपुरस्कारः आयोजितः। प्रथमं पुरस्कारम् एं.टी. वासुदेवन् नायर् वर्याय अदात्। साहित्यरङ्गाय समग्रयोगदानमादृत्य पुरस्कारः दीयते।
५८ तमः केरलविद्यालयीयकलेत्सवः गोपुरद्वारमागतः।
तृशूर् – ५८ तमः केरलविद्यालयीयकलोत्सवः तृशूर् नगरे २०१८ जनुवरी ६तः १०पर्यन्तं सम्पत्स्यते। कलोत्सवार्थं सर्वाः सज्जताः समाप्तप्रायाः। प्रसिद्धं तृशिवपुरशिवमन्दिरं परितः २४ वेदिकाः सज्जीकृताः।कलोत्सवे प्रतियोगितानां समयसारिणी घोषिता। हरितनियमानुसारं कलोत्सवः संघटयति। वेदिकानां नामान्यपि प्रकृत्यनुसारं वृक्षलतादीनां कैरलीनामयोजनेन आकर्षकं करोति।
वेदिका १. नीर्मातलम्, २. निशागन्धी, ३. नीलक्कुरिञ्ञी, ४. तेन्वरिक्का, ५. चेमपरत्ती, ६. नीलोत्पलम्, ७. नीर्मरुत्, ८. नन्द्यार्वट्टम्, ९. कुटमुल्ला, १०. मञ्चाटी, ११. कणिक्कोन्ना, १२. चेम्पकम्, १३. देवतारु, १४. पविषमल्ली, १५. नित्यकल्याणी, १६. राजमल्ली, १७. सूर्यकान्ती, १८. नीलक्कटम्प्, १९. शङ्खपुष्पम्, २० नीलत्तामरा, २१. अशोकम्, २२. काशित्तुम्पा, २३. चन्दनम्, २४. केरः इति वेदिकानां क्रमशः नामानि।
संस्कृतोत्सवकार्यक्रमाणां वेदिका यथा –
४. तेन्वरिक्का – संस्कृत नाटकम्, ६. नीलोत्पलम्- रचनास्पर्धाः, प्रश्नोत्तरम्, गानालापः, अष्टपदी च। ७. नीर्मरुत् – पाठकम्, अक्षरश्लोकः, पद्योच्चारणम्, प्रभाषणम्, चम्पूप्रभाषणम् च। ११. कणिक्कोन्ना – संस्कृतसङ्गोष्ठी, वन्देमातरम्, सङ्घगानम् च। १९ शङ्खपुष्पम् – कूटियाट्टम्।
- पलास्तिकवस्तूनि कलोत्सवनगर्यां निरुद्धानि सन्ति।