Monthly Archives: December 2017
५८ तमः केरलविद्यालयीयकलेत्सवः गोपुरद्वारमागतः।
तृशूर् – ५८ तमः केरलविद्यालयीयकलोत्सवः तृशूर् नगरे २०१८ जनुवरी ६तः १०पर्यन्तं सम्पत्स्यते। कलोत्सवार्थं सर्वाः सज्जताः समाप्तप्रायाः। प्रसिद्धं तृशिवपुरशिवमन्दिरं परितः २४ वेदिकाः सज्जीकृताः।कलोत्सवे प्रतियोगितानां समयसारिणी घोषिता। हरितनियमानुसारं कलोत्सवः संघटयति। वेदिकानां नामान्यपि प्रकृत्यनुसारं वृक्षलतादीनां कैरलीनामयोजनेन आकर्षकं करोति।
वेदिका १. नीर्मातलम्, २. निशागन्धी, ३. नीलक्कुरिञ्ञी, ४. तेन्वरिक्का, ५. चेमपरत्ती, ६. नीलोत्पलम्, ७. नीर्मरुत्, ८. नन्द्यार्वट्टम्, ९. कुटमुल्ला, १०. मञ्चाटी, ११. कणिक्कोन्ना, १२. चेम्पकम्, १३. देवतारु, १४. पविषमल्ली, १५. नित्यकल्याणी, १६. राजमल्ली, १७. सूर्यकान्ती, १८. नीलक्कटम्प्, १९. शङ्खपुष्पम्, २० नीलत्तामरा, २१. अशोकम्, २२. काशित्तुम्पा, २३. चन्दनम्, २४. केरः इति वेदिकानां क्रमशः नामानि।
संस्कृतोत्सवकार्यक्रमाणां वेदिका यथा –
४. तेन्वरिक्का – संस्कृत नाटकम्, ६. नीलोत्पलम्- रचनास्पर्धाः, प्रश्नोत्तरम्, गानालापः, अष्टपदी च। ७. नीर्मरुत् – पाठकम्, अक्षरश्लोकः, पद्योच्चारणम्, प्रभाषणम्, चम्पूप्रभाषणम् च। ११. कणिक्कोन्ना – संस्कृतसङ्गोष्ठी, वन्देमातरम्, सङ्घगानम् च। १९ शङ्खपुष्पम् – कूटियाट्टम्।
- पलास्तिकवस्तूनि कलोत्सवनगर्यां निरुद्धानि सन्ति।
केरल संस्कृताध्यापक फेडरेषन् ४० तमं राज्यस्तरीयाधिवेशनं कासरगोड् नगरे, लोगो प्रकाशितम्।
कासरगोड् – केरलसंस्कृताध्यापकफेडरेषन् इति संघस्य चत्वारिंशत्तमं राज्यस्तरीयाधिवेशनं २०१८ फेब्रुवरी २२,२३.२४ दिनाङ्केषु कासरगोड् नगरसभामण्डपे प्रचलिष्यति। अधिवेशनस्य भागत्वेन सज्जीकृतं लोगो प्रकाशनं जिल्ला प्रशासनाधिकारी जीवन् बाबू एे.ए.एस् निरवहत्। स्वागतसङ्घस्य समायोजकः डो. सुनिल् कुमार् कोरोत् उपाध्यक्षः, पि एन् मधुसूदनन्, षिजू एं टी, कुञ्ञिक्कण्णन् मुट्टत्त्, ई. हरिकुमारः, रिजेष् प्रभृतयः सन्निहिता आसन्।
प्रधानमन्त्री अद्य केरलराज्ये, अनन्तपुरी सुरक्षावलये।
तिरुवनन्तपुरम् – ओखी दुरन्तानन्तरं दुरितबाधितान् जनान् साक्षाद्द्रष्टुं प्रधानमन्त्री नरेन्द्रमोदीवर्यः अद्य केरलराज्यं प्राप्नोति। लक्षद्वीपसन्दर्शनात् परमेव ते अत्रागमिष्यन्ति।३५०० कोटि रूप्यकाणां पुनरधिवाससाहाय्यं प्रधानमन्त्रिणं प्रार्थयिष्यन्ते इति लत्तीन् क्रैस्तवसभानेतारः समसूचयन्।
ओखी दरन्तं देशीयदुरन्तत्वेन परिगणनीयमिति आवेदनानां मध्ये एव प्रधानमन्त्रिणः केरलसन्दर्शनम्। दुरन्तबाधितानां कृते केन्द्रियसाहाय्यम् इतः पर्यन्तं न प्रख्यापितम्।
केरलेषु पून्तुरा देशे तीरदेशवासिनः मत्स्यबन्धनकर्मकरान् च प्रधानमन्त्री मिलिष्यति। ततः तैक्काट् अतिथिमन्दिरे मुख्यमन्त्रिणा, मन्त्रिभिः राजनैतिकनेतृभिश्च समं साक्षात्कारः भविष्यति। सायं षट्वादने प्रधानमन्त्री दिल्लीं प्रति गमिष्यति। दुरन्तव्याप्तिं प्रधानमन्त्रिणः पुरतः अवतारयितुं दृश्यावतरणादीन् उपायान् राज्यसर्वकारःआयोजयति। प्रधानमन्त्रिणः सन्दर्शनवेलायाम् अनन्तपुर्यां सुरक्षाक्रमीकरणं शक्तमकरोत्।
मुम्बै अन्धेरी स्थले अग्निबाधा, १२ जनाः मृता। बहवः अन्तः स्थगिताः।
मुम्बै – मुम्बैय्याम् अन्धेरी स्थले जातायाम् अग्निबाधायां १२जनाः मृताः। पूर्वान्धेर्याम् एकस्यां पण्यशालायां सोमवासरे प्रातः जातायाम् अग्निबाधायां २०० पादपरिमिता पण्यशाला विशीर्णा। शालायाः अन्तः १२ अधिकं जनाः स्थगिता इत्यपि आवेदयति। लक्ष्मीनारायण मन्दिरसमीपं खैराणी रथ्यायां भानू फर्सन् आपणे प्रातः ४.१५ वादने आसीत् अग्निबाधा। भक्ष्यशेखरं वस्त्राणि गृहोपकरणानि इत्येतेषां विक्रयणस्थले तेषामुपरि आपणसौधं पपात। तत्रत्याः कर्मकराः एव अन्तः स्थगिताः। अगनिशमनसेनायाः नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।
PRASNOTHARAM 23-12-2017
प्रश्नोत्तरम्।
- अमरशक्तिनामको नृपः —(क) तन्त्रशास्त्रम् (ख) जातकमाला (ग) पञ्चतन्त्रम्
- ” यावज्जीवेत् सुखं जीवेत् ” (क) वेदान्ती (ख) चार्वाकः (ग) साङ्ख्यः
- मालतीमाधवस्य रचयिता – (क) कालिदासः (ख) भवभूतिः (ग) भारविः
- सोमदेवस्य प्रसिद्धा कृतिः – (क) कादम्बरी (ख) कथासरित्सागरः(ग) प्रतिमानाटकम्
- प्रतिमानाटकस्य इतिवृत्तम् (क) रामायणात् (ख) महाभारतात् (ग) पञ्चतन्त्रात्
- जयदेवकृतिरेषा – (क) गीतागोविन्दम् (ख) स्तोत्रमाला (ग) नारायणीयम्
- राजतरङ्गिण्याः प्रणेता – (क) कल्हणः (ख) भारविः (ग) क्षेमेन्द्रः
- पाणी च पादौ च – (क) पाणीपादौ (ख) पाणिपादम् (ग) पाणिपादः
- यथाशक्ति- समासः कः ? (क) अव्ययीभावः (ख) तत्पुरुषः (ग) द्वन्दः
- एवरस्ट् आरूढा प्रथमा दिव्याङ्गा (Differently Able )वनिता का ? (क) बचेन्द्री पाल् (ख) अरुणिमा सिन्हा (ग) कल्पना चौला
Last date: 23-12-2017
ഈയാഴ്ചയിലെ വിജയി
VARSHA S. HSS, Sreekrishnapuram
“അഭിനന്ദനങ്ങള്”
ശരിയുത്തരങ്ങളയച്ചവര്:
- VARSHA S. HSS, Sreekrishnapuram
- Revathy K M, Trippunithura
- Uma Neelamana
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
शोभते तारकं यथा – 23-12-2017
नूतनी समस्या
“शोभते तारकं यथा”
Last date: 23-12-2017
ഒന്നാംസ്ഥാനം നേടിയ സമസ്യ
ഗുരുനാഥസമക്ഷേ ന
സഭാമദ്ധ്യേ സ ഭാസതേ
ന ദീപ്തമാനേ മാര്ത്താണ്ഡേ
ശോഭതേ താരകം യഥാ
വി.ടി. ഹരിപ്രസാദ് കടമ്പൂര്
“വിജയികള്ക്ക് അഭിനന്ദനങ്ങള്”
केरला-स्कूल् कलोत्सवस्य अवलोकनसभा सम्पन्ना।
तृश्शिवपुरम् – केरला स्कूल् कलोत्सवस्य सम्यक् चालनार्थं कार्यकर्तृणाम् अवलोकनयोगः मातृका-बालिका-विद्यालयस्य वेदिकायां सुसम्पन्नः। शिक्षामन्त्री प्रॊफ. रवीन्द्रनाथः, कृषिमन्त्री श्री सुनिलकुमारः, सामान्यशिक्षाविभागस्य अध्यक्षः श्री मोहनकुमार् ऐ.ए.एस् प्रभृतयः भागं गृहीतवन्तः। तस्मिन् शिक्षामन्त्रिणा अवोचत् यत् कौमारकलोत्सवः मालिन्यमुक्तः, ललितः, आक्षेपरहितः च भवितव्य इति। कृषिमन्त्रिणा सुनिलकुमारेण निगदितं यत् कलोत्सवः निश्चयेन परिस्थिति-सौहृदपरः (ग्रीन् – क्लीन्)भवितव्यः। अपि च भक्ष्यविभवाः सर्वे कीटनाशिनि-मुक्त-जैवशाकादीनि उपयोक्तव्यानि। योगेfस्मिन् संस्कृतोत्सवस्य उपकर्तृणा श्री विवेकमहदयेन संस्कृतोत्सवस्य विचारसभायाः च कार्यक्रमाः समग्रतया आसूत्रणं कृताः इति प्रख्यापितम्। विचारसभामध्ये नववाणीसंरंभस्य समुद्घाटनं शिक्षामन्त्रिणा करणीयमिति वेदिकायामेव प्रार्थितवानयम्। सामान्यशिक्षाधिकारिणी डो.सुनीतीदेवी प्रभृतयः सन्निहिताः आसन्।
नववाणी संरंभः संस्कृतोत्सव-विचारसभामध्ये विद्याभ्यासमन्त्रिः उद्घाटयिष्यति।
तृश्शूर् – नववाणी – मोबैल् आप् – संरंभः केरला-स्कूल्-कलोत्सवस्य राज्यस्तरीय-संस्कृतविचारसभायाः वेदिकायां केरलशिक्षामन्त्रिणा प्रॊफ. रवीन्द्रनाथमहोदयेन उद्घाटयिष्यते। अयं संरंभः केरलीयानां संस्कृतप्रेमिणां चिरकालाभिलाष एव आसीत्।
केरलेषु प्रप्रथमम् इरिङ्ङालक्कुटा शिक्षामण्डले संस्कृत- अक्कादमिक- समितिः १०-०२-२०१० तमे वर्षे नववाणीनामकस्य संस्कृतजालपुटस्य आरम्भमकरोत्। केरलस्य शिक्षाक्षेत्रेषु संस्कृतपठनपाठनरीतीः आधुनिकीकर्तुं नववाणयाः अनिषेध्यं योगदानमस्ति।
इदानीं नववाणी नामकं मॊबैल् आप् द्वारा संस्कृतविषयकं सर्वमपि कार्यं सर्वेषां कृते कुर्वन् विराजते। तदर्थं सस्कृतलोकः नववाणीं प्रति कृतज्ञप्रकाशकाः भवेयुः।
संसदः शैत्यकालाधिवेशनम् अद्य प्रारभते।
नवदिल्ली – सार्धैकमासस्य विलम्बानन्तरं संसदः शैत्यकालाधिवेशनम् अद्य प्रारभते। सभामेलनं १४ दिवसपर्यन्तं भविता। गुजरात् निर्वाचनफलं संसदधिवेशनस्य गतिनिर्णयं करिष्यति। पाकिस्तानेन सह मिलित्वा गुजरात् निर्वाचनं विच्छिन्नं कर्तुं भतपूर्वः प्रधानमन्त्री डो. मन्मोहन् सिंहः प्रायतत इति प्रधानमन्त्रिणः नरेन्द्रमोदिनः आक्षेपः तथा गुजरात् निर्वाचने मुख्य निर्वाचनायुक्तस्य पक्षपातित्वमिति विपक्षिदलानाम् आक्षेपश्च सभामेलनं प्रक्षुब्दं करिष्यति। मुत्तलाख् प्रभृतीन् विषयानधिकृत्य देयकान्यपि अस्मिन्नधिवेशने प्रस्तोष्यति।
जिषावधव्यवहारः अपराधिने मृत्युदण्डः।
कोच्ची – जिषावधव्यवहारे अपराधी अमिरुल् इस्लामः मृत्युदण्डाय कल्पितः। एरणाकुलं मुख्य सेषन्स् न्यायाधीशः एन्. अनिल् कुमार् महाशयः दण्डम् उदघोषयत्। अपूर्वः व्यवहार एवेति मत्वा मृत्युदण्डः घोषितः। इतरेषु अनुबन्धापराधेषु आजीवं, दशवर्षाणि, सप्तवर्षाणि इत्येवं प्रत्येकं कारावासः पञ्चलक्षरूप्यकाणां दणडश्च पृथक् घोषितः। अतिक्रूरः अपराधः अमिरुल् इस्लामेन कृतः इति विॆधिप्रस्तावे न्यायालयः समसूचयत्। अपराधिनं विय्यूर् केन्द्रकारागारं प्रति नेष्यति।
व्यवहारे अमिरुल् इस्लाम् अपराधी एवेति बुधवासरे न्यायालयः समलक्षयत्।
नियमविद्यार्थी जिषा २०१६ एप्रिल् २८ तमे दिनाङ्के पेरुम्पावूर् समीपस्थे स्वकीये एकप्रकोष्ठपरिमिते गृहे एव मारिता आसीत्।