देशाभिमानी साहित्यपुरस्कारः कथाकाराय टी. पद्मनाभाय।

कण्णूर्- अस्य वर्षस्य देशाभिमानी साहित्यपुरस्काराय विख्यातः कथाकारः टी. पद्मनाभः अर्हो/भवत्। द्विलक्षं रूप्यकाणि प्रशस्तिपत्रं च पुरस्कारः।

     देशाभिमानी मुख्यसम्पादकः एं.वी. गोविन्दः कण्णूर् पत्तने वार्तासम्मेलने पुरस्कारं प्रख्यापितवान्। आगामिनि मार्च् मासे कण्णूर् नगरे सम्पत्स्यमाने एकवारात्मके साहित्योत्सवे मुख्यमन्त्री पिणरायि विजयः पुरस्कारं प्रदास्यति। गतवर्षे एव देशाभिमानी साहित्यपुरस्कारः आयोजितः। प्रथमं पुरस्कारम् एं.टी. वासुदेवन् नायर् वर्याय अदात्। साहित्यरङ्गाय समग्रयोगदानमादृत्य पुरस्कारः दीयते।

Leave a Reply

Your email address will not be published. Required fields are marked *