Monthly Archives: January 2018
खेलो इन्ड्या – विद्यालयीयक्रीडायाः शुभारम्भः।
नवदिल्ली – दिल्याम् आयोजितायाः खेलो इन्ड्या इति विदियालयीयक्रीडायाः शुभारम्भो जातः। कौमारक्रीडाप्रतिभानां नूतनी प्रतीक्षा अस्ति खेलो इन्ड्या। इन्दिरागान्धी आन्तरिकक्रीडाङ्गणे प्रधानमन्त्री नरेन्द्रमोदी खेलो इन्ड्या अभियानस्य उद्घाटनमकरोत्। प्रथमदिने तमिल् नाटु अग्रे सरति। मुद्रात्रयेण केरलं द्वितीयस्थाने अस्ति।
विद्यालयेभ्यः समर्थान् क्रीडकान् अवगत्य तान् भविष्ये उत्तमान् क्रीडकान् कर्तुमुद्दिश्यैव खेलो इन्ड्या अभियानमारब्दम्। अस्मिन् १७ वयःपर्यन्ताः क्रीडकाः एव भागं गृह्णन्ति।
श्वः पूर्णं चन्द्रग्रहणम्, मन्दिराणि पिहितानि भवेयुः, सप्तसु जनपदेषु सागरक्षोभजाग्रता।
तिरुवनन्तपुरम्- श्वः सम्पूर्णचन्द्रग्रहणं, केरले तीरदेशेषु सागरक्षोभः भविता इति अवधाननिर्देशः। राज्यस्तरीयः दुरन्तनिवारणविभागे/पि अवधानतानिर्देशमदात्। अद्य आरभ्य फिब्रुवरी ३ पर्यन्तं कोल्लम् आलप्पुषा, कोच्ची, पोन्नानि, कोषिक्कोट् कण्णूर् कासरगोड् प्रदेशेषु सागरक्षोभसाध्यता अस्तीति जाग्रता निर्देशः
सम्पूर्णचन्द्रग्रहणकारणेन श्वः तिरुवितांकूर् देवस्वं बोर्ड् संस्थायाः अधीनतायां स्थितानि मन्दिराणि सायं ५.१३ तः रात्रौ ८.४३ पर्यन्तं पिहितानि भविष्यन्तीति बोर्ड् अधिकारिणः असूचयन्।
उच्चविद्यालयानाम् उच्चतरविद्यालयानां च एकीकरणं सर्वकारपरिगणनायाम् – मुख्यमन्त्री।
तिरुवनन्तपुरम् – राज्ये उच्चविद्यालयानाम् उच्चतरविद्यालयानां च सामान्यीकरणं प्रशासनस्य परिगणनाविषयः अस्तीति मुख्यमन्त्री पिणरायि विजयः अवदत्। उभयोः भरणसंविधानस्य एकीकरणमेव लक्ष्यमिति स विधानसभायां एकस्य प्रश्नस्य प्रतिवचनरूपेण उक्तवान्। विषये/स्मिन् उच्चतरविद्यालयीयानाम् अध्यापकानां मध्ये विप्रतिपत्तिः प्रवर्तते।
PRASNOTHARAM – 03-02-2018
प्रश्नोत्तरम्।
- अस्मिन् वर्षे (2018) पद्मश्री प्राप्ता पारम्पर्य वैद्या का ? (क) लक्ष्मिक्कुट्टियम्मा (ख) सी के जानू (ग) वल्लियम्मा
- भागवत पुराणे कति स्कन्द्धाः सन्ति ? (क) 12 (ख) 10 (ग) 18
- पुराणानाम् गणना मध्ये भद्वयेन विवक्षिते पुराणे के ? (क) भागवत,भागवती (ख) भविष्य,भूत (ग)भागवत,भविष्य
- कः सर्पयज्ञम् कृतवान् ? (क) परीक्षित् (ख) जनमेजयः (ग)युधिष्ठिरः
- युधिष्ठिरस्य राजसूययज्ञे श्रीकृष्णः कस्य वधम् अकरोत् ? (क) बाणासुरस्य (ख)प्रलम्बासुरस्य (ग) शिशुपालस्य
- अस्मिन् महाकाव्यं किम् ? (क) गङ्गालहरी (ख) सौन्दर्यलहरी (ग) किरातार्जुनीयम्
- शकुन्तलां पालितः मुनिः कः? (क) कण्वः (ख) गौतमः (ग) मरीचिः
- “अर्थो हि कन्या परकीय एव ” एषा उक्तिः कस्मिन् नाटके भवति ? (क) उत्तररामचरिते (ख)मृच्छकटिके (ग) अभिज्ञानशाकुन्तले
- वेणीसंहारस्य कर्ता कः? (क)विशाखदत्तः (ख)जयदेवः (ग) भट्टनारायणः
- जातकमाला केन विरचितं भवति ? (क) उपगुप्तेन (ख) आर्यशूरेण (ग) नागदेवेन
ഈയാഴ്ചയിലെ വിജയി
SMITHA NAMBIAR, GHS NELLIKKURUSSI
“അഭിനന്ദനങ്ങള്”
ശരിയുത്തരമയച്ചവര്:
- SMITHA NAMBIAR, GHS NELLIKKURUSSI
- SEETHA K KAPOTHAN
9 ഉത്തരങ്ങള് ശരിയാക്കിയവര്:
- Anjana ms LFCHS
- Anilkumar
- Rajalekshmi.A
- श्रीप्रिया, तलिप्परमपा यू पी
- Dr. P. Narayanan
- Sre edevi
- DEVIKA MADHU
- Gokul P
- രജനി പി. ജി
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
कलामण्डलं गीतानन्दः कलानुक्रममध्ये क्षीणितः सन् पतित्वा मृतः।
अविट्टत्तूर् – प्रशस्तः ओट्टन्तुल्लल् कलाकारः कलामण्डलं गीतानन्दः अविट्टत्तूर् देशे कलावतरणान्तरे क्षीणेन पतित्वा मृतः। रविवासरे रात्रौ ८ होरायां अविट्टत्तूर् महादेव मन्दिरोत्सवस्य पल्लिवेट्टा दिने ओट्टन् तुल्लल् प्रस्तुतीकरणमध्ये मुग्धः सन् पतति स्म। झटित्येव समीपस्थं पुल्लूर् मिषन् चिकित्सालयं नीतः। तावत् स सजीवः नासीत्, वैद्यैः तस्य मरणं स्थिरीकृतम्। हृदयाघात एव मरणकारणमिति प्राथमिकं निगमनम्
यच्छ यच्छेति जल्पति – 03-02-2018
नूतनी समस्या –
“यच्छ यच्छेति जल्पति”
ഒന്നാംസ്ഥാനം
वाञ्छाधिकप्रदं देवम्
अयाचन् ना ध्रुवां गतिम्।
तुच्छार्थगृध्नुर्मोहान्धो
यच्छ यच्छेति जल्पति ॥
Dr P. Narayanan
“വിജയികള്ക്ക് അഭിനന്ദനങ്ങള്”
प्रधानमन्त्रिणः विदेशपर्यटनं फिब्रुवरी नवमे दिने आरभते।
संस्कृताध्यापकफेडरेषनस्य वार्षिकसम्मेलनम् – स्वागतसंघकार्यालयः उद्घाटितः।
कासरगोड् – फेब्रुवरिमासस्य २२,२३ दिनाङ्कयोः कासरगोड् जिल्लायां प्रचाल्यमानस्य संस्कृताध्यापकफेडरेषन् वार्षिकसम्मेलनस्य स्वागतसंघकार्यालयः उद्घाटितः। कासरगोड् पत्रिकासंघस्य अध्यक्षः टि.ए षाफिः उद्घाटकः आसीत्। संघाटकसमितेः अध्यक्षः ऐ.वि. भट्ट् महोदयः अध्यक्षपदवीमावहत्। पि.एन. मधुसूदनः, ऱाषिद् पूरणम्, गणेष् कुमार्, नीलमना शङ्करन् नम्पूतिरिः, षिजु एम्.टि, सुनिलकुमार् प्रभृतयः भाषणमकुर्वन्।
कुत्र उपविशतीति विषयः मां न पीडयति – रूक्षविमर्शनेन सह राहुल् गान्धी।
गणतन्त्रदिनाघोषे सेनाविन्यासकार्यक्रमान्वीक्षितुं वेदिकायाः पश्चाद्भागे आसन्दः लब्धः इत्यस्मिन् विषये न को/पि परिदेवनं नास्तीति कोण्ग्रेस् दलाध्यक्षः तथा विपक्षिदलनेता राहुल् गान्धी वर्यः अवदत्। कार्यक्रमान् विक्षितुं पष्ठपङ्क्तौ एव राहुल् वर्याय आसन्दः कल्पितः। एतदनुबन्ध्य विवादः उन्नीतः आसीत्। ततः एव “कुत्र उपविशतीति कार्यं मां न पराभवति ” इति प्रस्तावनया सह राहुल् गान्धी आगतवान्।एन्.डी.टी.वीं प्रति आसीत् राहुलस्य प्रस्तावः। गणतन्त्रदिनाघोषे राज्यसभायाः कोण्ग्रेस् दलाध्यक्षेण गुलां नबी आसादेन साकं षष्ठ्यां पङ्क्त्यामेव राहुलस्य आसन्दः कल्पितः आसीत्।
महाराष्ट्रा राज्य़े लोकयानदुर्घटना, १२ जनाः मारिताः।
पूणे – महाराष्ट्रा राज्ये पञ्चगङ्गानद्यां लोकयानं पतित्वा १२ जनाः मृताः। रुग्णानामवस्था गुरुतरा भवति। ते समीपस्थं चिकित्सालयं नीताः। बस् याने १७ यात्रिकाः आसन्।
पश्चिममहाराष्ट्रायां कोल्हापुरे शुक्रवासरे रात्रौ आसीत् दुर्घटना। बस् याने शिवाजिसेतौ प्राप्ते चालकेन नियन्त्रणं विनष्टम्। पूणे बलेवाडि देशस्थाः आसीत् यात्रिकाः। एते पूणे गणपतिपुलं प्रति प्रस्थिताः आसन्। चालकस्य निद्रावत्वमेव दुर्घटनायाः कारणमित्यनुमन्यते।