Monthly Archives: August 2020
संस्कृतवाराचरणम्।
नटवरम्ब:- नटवरम्ब सर्वकारीयोच्चविद्यालये संस्कृतवाराचरणस्य उद्घाटनं वेलूक्कर ग्रामपञ्चायत्त् अध्यक्षा श्रीमति उचिता सुरेष् निरवहत्। नटवरम्ब विद्यालयस्य शताब्दिनिमित्तं निर्मिते “SMART SANSKRIT ” इति वाट्साप् गणे कार्यक्रममिदं प्राचलत्। अस्मिन् वाट्साप् गणे शतदिनात्मकं निश्शुल्कसंस्कृतपठनं प्रचलन्नस्ति। रक्षाकर्तृसमितेः अध्यक्षः श्री अनिलः आध्यक्षपदम् अलङ्कृतवान्। कालटी सर्वकलाशालायाः व्याकरणविभागस्य प्राचार्यः डोः एम्. वि नटेशः मुख्यभाषणम् अकरोत्। हयर् सेक्कन्टरि विभागाध्यक्षः श्री नासरुद्दीन् अध्यापकप्रतिनिधिः श्री ताजुद्दीन् ,हयर् सेक्कन्डरिविभागस्य संस्कृताध्यापकः डोः महेष् बाबु प्रभृतयः आशंसाः समर्पयन्। हैस्कूल् प्रधानाध्यपिका श्रीमति लालिटीच्चर् स्वागतभाषणम् अकरोत्। हैस्कूल् विभागस्य संस्कृताध्यापकः श्री सुरेष् बाबु कृतज्ञतां व्याहरत्। सम्मेलनानन्तरं “कृतिः“इति संस्कृतसङ्गीतशिल्पं प्रादर्शयत् ।
मम भाषा संस्कृतम्।
मम भाषा संस्कृतम्।
(संस्कृतदिनगीतम् – विजयन् वि. पट्टाम्बि)
मम भाषा संस्कृतं संस्कृतेश्च वर्धकम्
सर्वचित्तहारकं सर्वलोकरञ्जकम्।
मम भाषा संस्कृतं सुन्दरं सनातनम्
काव्यशास्त्ररक्षकं चात्मतत्त्वभासकम्।
मम भाषा संस्कृतं शास्त्रतत्त्वगुम्फितम्
जीवनप्रदायकं जीवनाय चोदकम्।
मम भाषा संस्कृतं तत्त्वशास्त्रावेदकम्
भक्तिमार्गदर्शकं सर्वदुःखहारकम्।
मम भाषा संस्कृतं सर्वलोकदीपकम्
भानुतुल्यभासकं भामिनीव रञ्जकम्।
मम भाषा संस्कृतं कण्ठशुद्धिवर्धकम्
वेदशास्त्रबोधकं वेदितव्यसञ्जितम्।
मम भाषा संस्कृतं भाषणं करोम्यहम्
मातृकल्पभाविनं तं भजे निरन्तरम्।।
संस्कृताय समर्पणम् (भागः १४३) – 08-08-2020
EPISODE – 143
नूतना समस्या-
“संस्कृताय समर्पणम्”
ഒന്നാംസ്ഥാനം
“കുർവന്തു നിജസർവസ്വം
യാവച്ഛക്യം സ്വമേധയാ
വിശ്വസ്നേഹപ്രതീകായ
സംസ്കൃതായ സമർപ്പണം.”
Bhaskaran N K
“അഭിനന്ദനങ്ങള്”
आराष्ट्रं रोगिणां संख्या वर्धते।
उत्तरप्रदेशे कोविड् रोगबाधया मन्त्रिणः मृत्युः,
केन्द्रीय गृहमन्त्री अमित्षा वर्यः कोविड् बाधितः अभवत्।
नवदिल्ली- उत्तरप्रदेशे मन्त्रिमण्डलसदस्या तान्त्रिकशिक्षाविभागमन्त्री च कमलराणी वरुण् वर्या कोविड् बाधया मृता। जूलै १८ दिनाङ्के तस्यां रोगबाधा स्थिरीकृता आसीत्। अतः लख्नौ चिकित्सालये चिकित्सायां वर्तमाना अद्य प्रातः दिवंगता अभवत्। अस्मिन्नन्तरे केन्द्रीयगृहमन्त्री अमित्षा वर्यः कोविड् बाधितः सन् चिकित्सालयं नीतः। आराष्ट्रं रोगिणां संख्या मृत्युसंख्या च अनुदिनं वर्धते।
केरलेषु अद्य ११६९ जनाः कोविड् बाधिताः सन्तीति आवेदयति। एषु ९९१ जनेषु सम्पर्केणैव रागबाधा सञ्जाता। शिष्टाः विदेशेभ्यः इतरराज्येभ्यश्च आगत्य सम्पर्कनिरोधे स्थिताः आसन्। एकस्य रोगिणः मरणमपि अद्य आवेदितम्।
संस्कृतदिवसः अद्य।
तिरुवनन्तपुरम्- भारते संस्कृतानुरागिणां मुख्यदिवसो भवति श्रावणमासे पूर्णिमा तिथिः। पञ्चदशकं यावत् दिनमिदं संस्कृतदिवसत्वेन आचर्यते। 1969 तमे वर्षे एं. सी. चग्ला वर्यः यदा केन्द्रीय शिक्षामन्त्री आसीत् तदा एव संस्कृतदिवसमायोजयितुं निरणयो जातः। तदा प्रभृत्येव आकाशवाण्यां संस्कृतवार्ताप्रसारणमपि समारब्धम्। र्अटल् बिहारी वाजपेयी वर्यः प्रधानमन्त्रीपदव्यां स्थित्वा 2000-2001 वर्षः संस्कृतवर्षत्वेन आचरितः। तदा प्रभृति प्रतिवर्षं संस्कृतवाराचरणमेव इदानीं संपत्स्यते। संस्कृतदिनस्य पूर्वं दिनत्रयं पश्चाच्च दिनत्रयं समायोज्य संस्कृतवारम् आचर्यते।
संस्कृतं राष्ट्रीयैक्याय इति मुद्रावाक्यम् उद्घोषयन्नेव संस्कृतदिनमाचर्यते। अस्याः अमृतभाषायाः प्राधान्यं प्रसक्तिं च सामान्यजनेभ्यो अवबोधयितुं तथा संस्कृतपठनद्वारा पौराणिकम् आधुनिकं च विज्ञानं संयोजयितुमेव एतादृशं दिनाचरणम् कल्पितमस्ति। व्यवहारभाषात्वेन संस्कृतं प्रतिष्ठितुं यत्नं कृतवन्तः बहवः विद्वांसः सन्ति। तेषु प्रामुख्यं भजन्ते गुरुनाथः इति विख्यातः पुन्नश्शेरि नम्पि नीलकण्डशर्मा महाशयः तेषां मार्गं अनुसृत्य के.पी. नारायण पिषारोटिवर्यः, पी.टी. कुरियाकोस् वर्यः, वी. कृष्णशर्मा, प्रभृतयः विद्वांसः केरलेषु संस्कृतमहासागरे कर्णधाराः आसन्।
संस्कृतभाषा तथा तस्यामन्तर्लीनां संस्कृतिं विपुलां संपदं च मानवजीवनस्य विभिन्नां मेखलां स्पृशन्ति। वेदेषु वेदाङ्गेषु इतिहासपुराणादिषु दर्शनेषु उपनिषत्सु च सूचितानां विज्ञानानां प्रचारणम् आधुनिककले अवश्यंभावि। अतः संस्कृतदिनाचरणं केवलं आचरणाय न भवतु, संस्कृतप्रचारायैव भवतु।
PRASNOTHARAM (भागः १४३) – 08-08-2020
EPISODE – 143
प्रश्नोत्तरम्।
- कुन्दमालायाः कर्ता कः? (क) मुरारिः (ख) दिङ्नागः (ग) जयदेवः
- कुन्दमालायां कति अङ्काः सन्ति ? (क) ६ (ख) ७ (ग) ८
- कुन्दमालायाः इतिवृत्तं कस्मात् स्वीकृतं भवति ? (क) महाभारतात् (ख) लोककथायाः (ग) रामायणात्
- पञ्चतन्त्रस्य कर्ता कः? (क) विष्णुशर्मा (ख) गुणाढ्यः (ग) नारायणपण्डितः
- पञ्चतन्त्रस्य प्रथमं तन्त्रं किम् ? (क) मित्रसम्प्राप्तिः (ख) मित्रभेदः (ग) लब्धप्रणाशः
- पञ्चतन्त्रस्य तृतीयं तन्त्रं किम् ? (क) मित्रभेदः (ख) मित्रसम्प्राप्तिः (ग) काकोलूकीयम्
- पञ्चतन्त्रस्य पञ्चमं तन्त्रं किम् ? (क) अपरीक्षितकारकम् (ख) मित्रभेदः (ग) मित्रसम्प्राप्तिः
- विष्णुशर्मा कस्य राज्ञः पुत्राणां कृते पञ्चतन्त्रकथां व्यरचयत् ? (क) उदयनस्य (ख) अमरशक्तेः (ग) पुष्पदन्तस्य
- वानर-मकर कथा कस्मिन् तन्त्रे भवति ? (क) चतुर्थे (ख) तृतीये (ग) द्वितीये
- अपरीक्षितकारकस्य प्रथमा कथा का ? (क) वानर-मकर कथा (ख) सिंह-शृगाल कथा (ग) मणिभद्रश्रेष्ठिनः
ഈയാഴ്ചയിലെ വിജയി
ADIDEV C S
“അഭിനന്ദനങ്ങള്”













