Daily Archives: August 9, 2020

मध्यकेरलेषु कठिना वृष्टिः, निम्नप्रदेशाः जलपूरिताः सञ्जाता।

कोट्टयम्- मध्यकेरलेषु दक्षिणकेरलेषु च कठिना वृष्टिः। पम्पा, अच्चन् कोविल्, मणिमला, मीनच्चिल् प्रभृतयः मध्यकेरलस्थाः नद्यः कूलङ्कषाः सञ्जाताः। पत्तनंतिट्टा, कोट्टयं प्रभृतिषु स्थलेषु निम्नप्रदेशाः जलैराप्लाविताः अभवन्। जलश्रेणिषु ऊर्ध्वं गच्छत्सु कुट्टनाट् प्रदेशे दुरिताश्वासशिबिराणि समारब्धानि।

पाला, कोट्टयं नगरयोः निम्नप्रदेशाः जलैराच्छादिताः। अयर्कुन्नं पेरूर् प्रभृतिभ्यः प्रदेशेभ्यः जनाः सुरक्षितदेशं नीताः। कुमरकं, अय्मनं, तिरुवार्प्, आर्पूक्करा पञ्चायत् स्थलेष्वपि जलोपप्लवः अभवत्।

इटुक्की मण्डले अद्यापि शोणजागरूकता घोषिता। परन्तु प्रातःकाले अतितीव्रवृष्टिः तत्र न जाता। मुल्लप्परियार् जलबन्धे जलश्रेणी उन्नता जाता। अनेन जागरूकतायै पेरियार् तटेषु अधिवसतः जनान् अधिकृताः असूचयन्।

आलप्पुषा मण्डले जलोपप्लवः अधिकतया दृश्यते। तत्र वृष्टेः ईषत्शमनमस्ति। तथापि पूर्वभागादागतैः जलपूरैः कुट्टनाट् प्रदेशस्थानि गृहाणि जलान्तर्भूतानि अभवन्।

PRASNOTHARAM (भागः १४४) – 15-08-2020

EPISODE – 144

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सः बालकः ——। (क) पठति  (ख) पठामि   (ग) पठसि
  2. सा बालिका ——-। (क) क्रीडसि   (ख) क्रीडति  (ग) क्रीडामि
  3. अहं ——-गच्छामि। (क) विद्यालयं  (ख) विद्यालयः   (ग) विद्यालयस्य
  4. त्वं चित्रं ——। (क) पश्यति   (ख) पश्यामि  (ग) पश्यसि
  5. ते बालिके  ——। (क) नृत्यन्ति  (ख) नृत्यामः  (ग) नृत्यतः
  6.  ——- पायसं पिबामः। (क) वयं  (ख) ते  (ग) यूयं
  7. तौ  गीतं ——। (क) गायथः  (ख) गायतः   (ग) गायावः
  8. ते बालकाः ——-। (क) धावामः   (ख) धावथ  (ग) धावन्ति
  9. युवां छात्रौ ——। (क) लिखथः   (ख) लिखावः  (ग) लिखतः
  10. आवां महिले  ——। (क) पचावः   (ख) पचतः   (ग) पचथः

ശരിയുത്തരങ്ങള്‍:

  1.  पठति
  2. क्रीडति
  3. विद्यालयं
  4. पश्यसि
  5. नृत्यतः
  6. वयम्
  7. गायतः
  8. धावन्ति
  9. लिखथः
  10. पचावः

ഈയാഴ്ചയിലെ വിജയി

SREEDEVI E R

അഭിനന്ദനങ്ങള്‍

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreedevi E R
  • Dawn Jose
  • Adithya T
  • Harikrishnan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”