Daily Archives: August 11, 2020

विद्यालयानां प्रवर्तनं सद्यो न भविष्यति, शून्य अध्ययनवर्षत्वेन परिगणयितुं पर्यालोचना।

नवदिल्ली- कोरोणा विषाणोः व्यापनस्य भूमिकायां 2020 शून्याध्ययनवर्षत्वेन परिगणयितुं केन्द्रीय शिक्षामन्त्रालयस्य पर्यालोचना। अधुनातनं साहचर्यं अनुकूलं नास्तीति विचारविमर्शकारणेनैवायं निर्णयः। परं कलालयेषु विद्यालयेषु च वार्षिकं मूल्यनिर्णयम् आयोजयितुं शक्यते इति प्रतीक्षा असेतीति केन्द्र मानवशेषीविभागस्य सचिवः अमित् खरे वर्यः मानवविभवशेषीविभागस्य संसदीयस्थिरसमित्यधिवेशने प्रतीक्षां प्राकटयत्।

     अध्ययनवर्षम् अनुपेक्ष्य वार्षिकपरीक्षापूर्तये एव अधुना पर्यालोचना। प्रथमकक्ष्यातः द्वादशकक्षायापर्यन्तं  पठितवत्सु छात्रेषु षष्टिप्रतिशतं छात्राः सद्यस्कसेवा द्वारा पठितुं पारयन्ति। त्रिंशत् प्रतिशतं छात्राणां कृते रेडियो, टेलिविजन् प्रभृतीनि परिमितानि सौविध्यान्येव सन्ति। दशप्रतिशतं छात्राः सद्यस्कसेवाद्वारा कक्ष्यायां भागं गृहीतुं न शक्नुवन्ति इति सर्वेक्षणसूचना अस्ति।

     सम्पूर्णपिधानगात् परं पिहितान्  विद्यालयान्  पदे पदे पुनरुद्घाटयितुं पूर्वं निर्णयमासीत्। परन्तु विद्यालयानां पुनरुद्घाटनाय समयः न अनुकूलः इति विचिन्तनस्य आधारेण स निरणयः त्यक्तः।