Daily Archives: August 15, 2020

भारतं जयताच्चिरम् – विजयन् वि पट्टाम्बी।

भारतं जयताच्चिरम्।
——— – – – – – – –
सर्वदेशेषु सम्बुद्धं
सर्वलोकेषु विश्रुतम् ।
सर्वलोकसमाराध्यं
भारतं जयताच्चिरम् ।। 1

स्वरुचिं साधु संवर्ध्य
साधुभावं प्रकाश्य च ।
स्वान्तं शान्तिसंयुक्तं
भारतं जयताच्चिरम् ॥ 2

स्वायत्तं वर्धितं वीर्यं
स्वायत्तं जनमण्डलम् ।
स्वरभेदं विना चैत –
द्भारतं जयताच्चिरम् । । 3

योगविद्यां प्रसार्यात्र
सर्वलोकेषु च पुनः ।
सर्वचित्तानि संयम्य
भारतं जयताच्चिरम् ॥ 4

स्वायत्तीकृत्य तन्त्राणि
संलक्ष्य शत्रुविक्रमान् ।
संसेव्य रणतन्त्राणि
भारतं जयताच्चिरम् ॥ 5

संलक्ष्य साधु व्याधिध्ना –
नौषधानपि सत्वरम् ।
निहत्य व्याधिजालं त –
द्भारतं जयताच्चि२म् ॥ 6

संसेव्य संस्कृतं नित्यं
सर्वलोकोपकारकम् ।
सर्वान् ज्ञानेन सत्कृत्य
भारतं जयताच्चिरम् ॥ 7

स्वाधीनस्य सुखञ्चान्य –
दन्यैषा चात्मनिर्वृतिः ।
स्वाधीनं सर्वतोभद्रं
भारतं जयताच्चिरम् ॥ 8
– – – – – – – – – – – – –

कोविड् योद्धृृृन् प्रति राष्ट्रं विधेयत्वं समर्पयति- राष्ट्रपतिः।

कोविड् योद्धृृृन् प्रति राष्ट्रं विधेयत्वं समर्पयति- राष्ट्रपतिः।

नवदिल्ली- कोविड् महामारी आविश्वं मानवजीवनं क्लेशकरमकरोदिति राष्ट्रपतिः रामनाथ कोविन्द् वर्यः अवदत्। स्वतन्त्रतादिवसमालक्ष्य सन्देशं ददन् भाषमाण आसीत् राष्ट्रपतिः। कोविड् प्रतिरोधाय बद्धकक्षेभ्यः आरोग्यपिरवर्तकेभ्यः स कृतज्ञतां व्याहरत्।

अस्मिन् वर्षे स्वतन्त्रतादिवसस्याचरणं भिन्नया रीत्या वर्तते। मारकः विषाणुः मानवजीवनाय भीषा जातः। जीवनस्य सर्वेषु मण्डलेषु अन्तरायश्च सञ्जातः। अस्मिन् साहचर्ये एव वयं स्वतन्त्रतादिवसम् आचरामः। रोगस्य तीक्ष्णतां न्यूनीकर्तुं बहून् मृत्योर्वक्त्रात् त्रातुं च वयं शक्ताः अभवाम।

वैविध्ययुक्ते भारते असाधारणेन परिश्रमेणैव वयं रोगप्रतिरोधार्थं शक्ताः जाताः। प्रादेश्कं साहचर्यं ज्ञात्वं तदनुसारं प्रवर्तितुं राज्यसर्वकाराश्च सज्जाः अभवन्। वन्दे भरत दौत्यद्वारा विश्वस्य विभिन्नभागेभ्यः प्रवासिभारतीयाः अत्रानीताः।

कोविड् बाधया जीवसन्धारणं स्थगितानां जनानां कृते प्रधानमन्त्री गरीब् कल्याण् योजनाद्वारा साहाय्यमदात्। स्वतन्त्रता संग्रामे महात्मागान्धिनः अनुचरा‌ वयं भाग्यवन्त एव इत्यपि राष्ट्रपतिः अवोचत्।