अयोध्यायां श्रीराममन्दिरनिरमाणस्य शुभारम्भः आगस्त् 5 दिनाङ्के।

दिल्ली- आयोध्यायां श्रीरांमन्दिरनिर्माणं श्वः आरभते। प्रधानमन्त्रिणः सन्दर्शनमभिलक्ष्य मन्दिरनगर्याः सुरक्षा केन्द्रसेनया स्वायत्तीकृता। कोविड् महामार्याः करालहस्तेपि अयोध्यानगरं मन्दिरभूमिपूजार्थं सज्जमभवत्। श्वः एकादशवादनेन प्रधानमन्त्री नरेन्द्रमोदीवर्यः मन्दिरनगरीं प्राप्स्यति। प्रथमं हनूमान् मन्दिरं प्राप्य तत्र प्रधानमन्त्री दशनिमेषपर्यन्तं स्थास्यति। ततः सार्धैकादशवादने मन्दिरभूमिपूजासमारोहे भागं गृहीष्यति। भूमिपूजानन्तरं मन्दिराङ्गणे प्रधानमन्त्री  पारिजातवृक्षं रोपयिष्यति।

    उत्तरप्रदेशमुख्यमन्त्रिणमभिव्याप्य पञ्च जनाः एव प्रधानमन्त्रिणा साकं वेदिकायां भविष्यति। 150 आमन्त्रितेषु 133 जनाः सन्यासिनः भवन्ति। एतैः सह उत्तरप्रदेशस्य सुन्नी वखफ् बोर्ड् अध्यक्षः सफर् फारूखी अयोध्याव्यवहारे आवेदकः इख्बाल् अन्सारी च तत्र भविष्यति। तस्मिन्नन्तरे कोविड् व्यापनस्य भूमिकायाम् एतादृशस्य समारोहस्य समायोजनं विरुध्य वामपक्षीयप्रभृतिभिः राजनैतिकदलैः विरोधः प्रकटितः।

Leave a Reply

Your email address will not be published. Required fields are marked *