Daily Archives: August 7, 2020

कोषिक्कोट् विमानपत्तने विमानदुर्घटना।

करिप्पूर्- कोषिक्कोट् अन्ताराष्ट्रविमानपत्तने एयर् इन्ड्या एक्स्प्रस् विमानं अवतारणावसरे धावनमार्गात् स्खलित्वा अपघाते आपतितम्। दुबाय् देशात् कोषिक्कोट् पर्यन्तं आगतं विमानमेव एवम् अपघाते पतितम्। अपघाते विमानं द्विधा भग्नम् इत्यावेद्यते। ए.ऐ.१३४४ विमानं रात्रौ ७.४५ वादने एव मार्गात् स्खलितम्। अपघाते एकेन वैमानिकेन सह दश मृताः इति श्रूयते। बहवः रुग्णाः संजाताः। रुग्णान् चिकित्सालयं प्रावेशयत्। तेषु केचन अतितीव्रावस्थायां सन्ति। विमाने आहत्य १९१ यात्रिकाः आसन्।