मम भाषा संस्कृतम्।

मम भाषा संस्कृतम्।

(संस्कृतदिनगीतम् – विजयन् वि. पट्टाम्बि)

मम भाषा संस्कृतं संस्कृतेश्च वर्धकम्

सर्वचित्तहारकं सर्वलोकरञ्जकम्।

मम भाषा संस्कृतं सुन्दरं सनातनम्

काव्यशास्त्ररक्षकं चात्मतत्त्वभासकम्।

मम भाषा संस्कृतं शास्त्रतत्त्वगुम्फितम्

जीवनप्रदायकं जीवनाय चोदकम्।

मम भाषा संस्कृतं तत्त्वशास्त्रावेदकम्

भक्तिमार्गदर्शकं सर्वदुःखहारकम्।

मम भाषा संस्कृतं सर्वलोकदीपकम्

भानुतुल्यभासकं भामिनीव रञ्जकम्।

मम भाषा संस्कृतं कण्ठशुद्धिवर्धकम्

वेदशास्त्रबोधकं वेदितव्यसञ्जितम्।

मम भाषा संस्कृतं भाषणं करोम्यहम्

मातृकल्पभाविनं तं भजे निरन्तरम्।।

 

5 Responses to मम भाषा संस्कृतम्।

  1. Remitha Reghuthaman says:

    गुरवे नमः 🙏
    संस्कृतभाषामाहात्म्यम् सुमधुरं वर्णितम् ।
    धन्यवादः

  2. ULLAS says:

    ഗീതം മധുരം

  3. गीता कुमारी says:

    सर्वं संपुष्टमं मनोहरम्। जयतु।

  4. सुरेष् बाबु says:

    मम भाषा संस्कृतं गीतं सुमधुरम् आलापनयोग्यम् च।
    विजयन् महाभगाय नमो नमः।

    • Narayana Hegde says:

      सुमधुरं पद्यम्। अर्थपूर्णं गेयात्मकं च।
      धन्यवादः श्रीमन् ।

Leave a Reply

Your email address will not be published. Required fields are marked *