Monthly Archives: July 2020

वर्षो हि सुखशीतलः (भागः- १४१) – 25-07-2020

EPISODE – 141

नूतना समस्या –

“वर्षो हि सुखशीतलः”

ഒന്നാംസ്ഥാനം

“ദുഃഖതപ്തസമൂഹസ്യ
സമാശ്വാസപ്രസാദവത്
ധരാതലം പ്രവിഷ്ടോSയം
വർഷോ ഹി സുഖശീതലഃ”

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

कोविड्-19- भारते समाजाभिव्यापनं सम्पन्नमिति भारतीयवैद्यकनिकायः।

नवदिल्ली- भारते कोविड् रोगस्य समाजाभिव्यापनं सम्पन्नमिति भारतीय-वैद्यक-निकायः(I.M.A.). राष्ट्रे एतावत्पर्यन्तं समाजव्यापनं न जातमिति केन्द्रीय-स्वास्थ्यमन्त्रालयस्य वादावृत्तेरन्तराले एव भिषग्वराणाम् अयमभिप्रायः।

     राष्ट्रे एतदभ्यन्तरे कोविड् समाजाभिव्यापनं समभवत्। इतः परं भारते स्थितिः सङ्कीर्णा भवेत्। रोगव्यापनं रूक्षं भवेत् इत्यपि ऐ.एम्. ए. अधिकारी वि.के. मोङ्गा अवदत्।

     प्रतिदिनं राष्ट्रे 30000 इति क्रमेण रोदबाधितानां संख्या वर्धते। अधुना ग्रामप्रदेशेष्वपि रोगव्यापनं तीक्ष्णं भवति। अतः समाजव्यापनमेव सूचयति।

     केरले तिरुवनन्तपुरं मण्डले द्वयोः प्रदेशयोः समाजव्यापनं सञ्जातमिति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। राष्ट्रे सर्वकारीणतले एव समाजव्यापनस्य स्थिरीकरणं केरले एव जातम्।

PRASNOTHARAM (भागः- १४१)- 25-07-2020

EPISODE – 141

 

प्रश्नोत्तरम्।

 

 

 

 

  1. नागानन्दस्य कर्ता कः ? (क) श्रीहर्षः   (ख) भट्टनारायणः  (ग) विशाखदत्तः
  2. नागानन्दे कति अङ्काः सन्ति ? (क) ७   (ख) ६  (ग) ५
  3. नागानन्दस्य नायकः कः? (क) शंखचूडः (ख) जीमूतवाहनः  (ग) उपदमनः
  4. नागानन्दस्य नायिका का ? (क) मलयवती  (ख) इरावती  (ग) सागरिका
  5. “लब्धं सुखं मयाSस्या बध्यशिलाया यदुत्सङ्गे।” कस्य वचनमिदम्  ?(क) जीमूतवाहनस्य  (ख) मित्रावसोः  (ग) गरुडस्य
  6. ” प्रियदर्शिका ” केन विरचिता भवति ? (क) ्श्रीहर्षेण  (ख) जयदेवेन  (ग) विशाखदत्तेन
  7. प्रियदर्शिकायां कति अङ्काः सन्ति ? (क) ३   (ख) ४  (ग) ५
  8. प्रियदर्शिकायाः नायकः कः ? (क) मित्रावसुः  (ख) वसुमित्रः (ग) उदयनः
  9. अधोदत्तेषु मुरारेः  नाटकं किम् ? (क) अनर्घराघवम्  (ख) प्रसन्नराघवम्  (ग) कुन्दमाला
  10. अनर्घराघवे कति अङ्काः सन्ति ? (क) ६  (ख) ७   (ग) ८

ഈയാഴ്ചയിലെ വിജയി

ADITYA T.

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍:

1.श्रीहर्षः
2.५
3.जीमूतवाहनः
4.मलयवती
5.मित्रावसोः
6.श्रीहर्षः
7.४
8.उदयनः
9.अनर्घराघवम्
10.७

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Aditya T
  • Divyachithran N V
  • Sathwik M B

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

कोविड् रोगव्यापनम्- तिरुवनन्तपुरं समुद्रतटप्रदेशेषु पूर्णपिधानं विधास्यति। तटप्रदेशः तिस्रः मेखलाः परिकल्प्य प्रतिरोधः।

तिरुवनन्तपुरम्- कोविड् रोगव्यापने वर्धमाने तटप्रदेशेषु पूर्णपिधानं विधास्यतीति मुख्यमन्त्री अवदत्। आगामिनि दिने एतदर्थम् आदेशः दीयते इति अवलोकनयोगानन्तरं मुख्यमन्त्री वार्ताहरान् व्यजिज्ञपत्।

प्रतिरोधप्रवर्तनानि सफलानि कर्तुं तटप्रदेशः मेखलात्रयरूपेण पर्यकल्पयत्। अञ्चुतेङ् आरभ्य पेरुमातुरा पर्यन्तं प्रथममेखला, पेरुमातुरा तः विषिञ्ञं पर्यन्तं द्वितीयमेखला, विषिञ्ञं आरभ्य ऊरम्प् पर्यन्तं तृतीयमेखला च। अत्र स्थितिगतीः नियन्त्रयितुं आरक्षिदलं नियुक्तमित्यपि मुख्यमन्त्री अवदत्।

प्रति मेखलं द्वौ भारतीयप्राशासनिकसेवा राजपुरुषौ दायित्वं स्वीकरिष्यतः। तटप्रदेशे यात्रार्थं निरोधः आयोजितः। अवश्यकार्यायैव यात्रोद्यमः भवेयुरिति मुख्यमन्त्री अवदत्।

केरले प्लस्-टु, वि.एच्.एस्.इ. परीक्षापरिणामः अद्य घोषयिष्यति।

तिरुवनन्तपुरम्- केरलराज्ये प्लस्-टु (उच्चतरविद्यालयः) वि.एच्.एस्.इ.(वृत्तिविषयक उच्चतरविद्यालयः) परीक्षापरिणामः अद्य धोषयिष्यति। अद्य मध्याह्नादूर्ध्वं द्विवादने शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः परीक्षाफलं धोषयिष्यति।www.keralaresult.nic.in इति जालपुटे परीक्षाफलं लप्स्यते। डि.एच्.एस्.इ.  पि.आर्.डि. कैट्  जालपुटेष्वपि फलं लभेत। पि.आर्.डि, लैव, सफलं 2020 मोवैल् आप् द्वारा अपि परीक्षापरिणामं ज्ञातुं शक्यते। सि.बि. एस्.इ दशमकक्ष्यापरीक्षाफलमपि अद्य घोषयिष्यति।

संस्कृतं लोकरञ्जकम्।

श्रीपद्मनाभस्वामिमन्दिरप्रशासने राजपरिवारस्यापि अधिकारः-सर्वोच्चन्यायालयः।

नवदिल्ली- श्रीपद्मनाभमन्दिरे तिरुवितांकूर् राजपरिवारस्य अधिकारः सर्वोच्चन्यायालयेन व्यवस्थापितः। मन्दिरं सर्वकारेण स्वायत्तीकरणीयम् इति केरलीय-उच्चन्यायालयस्य निर्णयं विरुध्य राजपरिवारेण समर्पिते आवेदने एव अधुना सर्वोच्चन्यायालयस्य निर्णायकः विधिनिर्णयः।

     पद्मनाभस्वामिमन्दिरस्य प्रशासनाय नूतना समितिः आयोजनीया इति न्यायालयेन आदेशो दत्तः। तावत्पर्यन्तं मण्डलन्यायाधिपस्य आध्यक्ष्ये अधुना स्थितायाः समितेः मन्दिरप्रशासनम् अनुवर्तयितुम् अधिकारः अस्ति। न्यायाधिशः यु.यु. ललित् वर्यस्य आध्यक्ष्ये आयोजितस्य संवेशनस्यैव एष निर्णयः।

     पद्मनाभस्वामिमन्दिरं राज्ञः परम्परायै दातुं व्यवस्था नास्तीति सूचयन्नेव 2011 संवत्सरे मन्दिरं सर्वकारेण स्वायत्तीकरणीयमिति उच्चन्यायालयेन आदेशो दत्तः आसीत्। एनं निर्णयं विरुध्यैव राजपरिवारः सर्वोच्चन्यायालये व्यहारं नीतवन्तः।

लोकानां रोदनं श्रुतम् (भागः १४०) – 18-07-2020

EPISODE – 140

नतना समस्या –

“लोकानां रोदनं श्रुतम्”

ഒന്നാംസ്ഥാനം

“അസ്വാതന്ത്ര്യമനാരോഗ്യം
ദാരിദ്ര്യം തീവ്രമർദ്ദനം
ഏതാനി കുത്ര? തത്രൈവ
ലോകാനാം രോദനം ശ്രുതം”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

ऐश्वर्या राय् बच्चन्, पुत्री आराध्या च कोविड् बाधिते।

मुम्बै- विख्यातः अभिनेता अमिताब् बच्चन् तस्य पुत्रः अभिषेक् बच्चन् च कोविड् रोगबाधया चिकित्सालयं प्रवेशितावास्ताम्। तत्पश्चात् बच्चन् वर्यस्य स्नुषा ऐश्वर्या राय् बच्चन्, पौत्री आराध्या बच्चन् च रोगबाधिते जाते।

पूर्वं द्वयोः आन्टीजन् परिशोधनायां रोगः न स्थिरीकृतः आसीत्। परन्तु स्रवपरिशोधनायाम् अधुना रोगबाधा स्थिरीकृता।

PRASNOTHARAM (भागः १४०) – 18-07-2020

EPISODE – 140

 

प्रश्नोत्तरम्।

 

 

 

 

  1. वेणीसंहारस्य कर्ता कः ? (क) भट्टनारायणः  (ख) विशाखदत्तः  (ग) जयदेवः
  2. वेणीसंहारे कति अङ्काः सन्ति ? (क) ५  (ख) ६   (ग) ७
  3. वेणीसंहारे ” वेणी ” कया सम्बद्धा भवति  ? (क) गान्धार्या  (ख) सुभद्रया  (ग) द्रौपद्या
  4. वेणीसंहारे अङ्गी रसः कः? (क) शृङ्गारः  (ख) वीरः  (ग) भयानकः
  5. दुर्योधनस्य पत्नी का ? (क) भानुमती  (ख) सानुमती  (ग) बुद्धिमती
  6. ” दैवायत्तं कुले जन्म मदायत्तं च पौरुषम् ” कस्य वचनमिदम् ? (क) दुर्योधनस्य  (ख) भीमसेनस्य  (ग) कर्णस्य
  7. कः द्रोणाचार्यस्य वधम् अकरोत् ?  (क) धृष्टद्युम्नः (ख) अर्जुनः (ग) भीमसेनः 
  8. रत्नावल्याः कर्ता कः ? (क) राजशेखरः  (ख) श्रीहर्षः  (ग) मुरारिः
  9. रत्नावल्यां कति अङ्काः सन्ति ? (क) ४   (ख) ५   (ग) ६
  10. ” रत्नावली “कस्य राज्यस्य राजकन्या भवति ? (क) मागध  (ख) अवन्ति (ग) सिंहल

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • SREESHA VINDO
  • Suchithra S
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”