Daily Archives: July 19, 2020

कोविड्-19- भारते समाजाभिव्यापनं सम्पन्नमिति भारतीयवैद्यकनिकायः।

नवदिल्ली- भारते कोविड् रोगस्य समाजाभिव्यापनं सम्पन्नमिति भारतीय-वैद्यक-निकायः(I.M.A.). राष्ट्रे एतावत्पर्यन्तं समाजव्यापनं न जातमिति केन्द्रीय-स्वास्थ्यमन्त्रालयस्य वादावृत्तेरन्तराले एव भिषग्वराणाम् अयमभिप्रायः।

     राष्ट्रे एतदभ्यन्तरे कोविड् समाजाभिव्यापनं समभवत्। इतः परं भारते स्थितिः सङ्कीर्णा भवेत्। रोगव्यापनं रूक्षं भवेत् इत्यपि ऐ.एम्. ए. अधिकारी वि.के. मोङ्गा अवदत्।

     प्रतिदिनं राष्ट्रे 30000 इति क्रमेण रोदबाधितानां संख्या वर्धते। अधुना ग्रामप्रदेशेष्वपि रोगव्यापनं तीक्ष्णं भवति। अतः समाजव्यापनमेव सूचयति।

     केरले तिरुवनन्तपुरं मण्डले द्वयोः प्रदेशयोः समाजव्यापनं सञ्जातमिति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। राष्ट्रे सर्वकारीणतले एव समाजव्यापनस्य स्थिरीकरणं केरले एव जातम्।

PRASNOTHARAM (भागः- १४१)- 25-07-2020

EPISODE – 141

 

प्रश्नोत्तरम्।

 

 

 

 

  1. नागानन्दस्य कर्ता कः ? (क) श्रीहर्षः   (ख) भट्टनारायणः  (ग) विशाखदत्तः
  2. नागानन्दे कति अङ्काः सन्ति ? (क) ७   (ख) ६  (ग) ५
  3. नागानन्दस्य नायकः कः? (क) शंखचूडः (ख) जीमूतवाहनः  (ग) उपदमनः
  4. नागानन्दस्य नायिका का ? (क) मलयवती  (ख) इरावती  (ग) सागरिका
  5. “लब्धं सुखं मयाSस्या बध्यशिलाया यदुत्सङ्गे।” कस्य वचनमिदम्  ?(क) जीमूतवाहनस्य  (ख) मित्रावसोः  (ग) गरुडस्य
  6. ” प्रियदर्शिका ” केन विरचिता भवति ? (क) ्श्रीहर्षेण  (ख) जयदेवेन  (ग) विशाखदत्तेन
  7. प्रियदर्शिकायां कति अङ्काः सन्ति ? (क) ३   (ख) ४  (ग) ५
  8. प्रियदर्शिकायाः नायकः कः ? (क) मित्रावसुः  (ख) वसुमित्रः (ग) उदयनः
  9. अधोदत्तेषु मुरारेः  नाटकं किम् ? (क) अनर्घराघवम्  (ख) प्रसन्नराघवम्  (ग) कुन्दमाला
  10. अनर्घराघवे कति अङ्काः सन्ति ? (क) ६  (ख) ७   (ग) ८

ഈയാഴ്ചയിലെ വിജയി

ADITYA T.

“അഭിനന്ദനങ്ങള്‍”

ശരിയുത്തരങ്ങള്‍:

1.श्रीहर्षः
2.५
3.जीमूतवाहनः
4.मलयवती
5.मित्रावसोः
6.श्रीहर्षः
7.४
8.उदयनः
9.अनर्घराघवम्
10.७

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Aditya T
  • Divyachithran N V
  • Sathwik M B

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”