Daily Archives: July 5, 2020

पूर्वलडाक् सीमां प्रति भारतम् अधिकानि सेनाङ्गानि न्ययोजयत्, उत्तरप्रदेशात् 15000 सैनिकाः।

देहली- पूर्वलडाक् सीम्नि भारतम् अधिकानि सेनाङ्गानि न्ययोजयत्। उत्तरप्रजेशात् 15000 सैनिकानाम् आगमनेन सीमायां भारतीयसैनिकानां संख्या 50000 अतीताः टि-90 विचक्रपरिवाहानभिव्याप्य सर्वे सन्नाहाः तत्र आयोजिताः। पूर्वमेव तिस्रः सेनाकक्ष्या विचक्रपरिवाहाश्य सीमायामासन्।

     गतदिने सम्पन्नायाम् उच्चतलसेनाचर्चायां स्वीकृतां समयामनुसृत्य स्वकीयान् सेनासन्नाहान् प्रत्याययितुं यदि चीना सन्नद्धः भवेत् तर्हि समानरीत्या भारतसेनायाः अपि  प्रतिनिवर्तनं भविता। तावत्पर्यन्तं सेनाविन्यासः तत्रैव तिष्ठेत्।

     निमनोन्नतप्रदेशस्थेन पर्यावरणेन सह अनुपदं समीकृत्यैव सेनाङ्गानि 14000 पदपरिमितां सीमां प्रापयत्।

PRASNOTHARAM (भागः १३९) – 11-07-2020

EPISODE – 139

 

प्रश्नोत्तरम्।

 

 

 

 

  1. उत्तररामचरितस्य कर्ता कः ?  (क) भासः   (ख) भवभूतिः  (ग) शक्तिभद्रः
  2. भवभूतेः कति नाटकानि उपलब्धानि सन्ति ? (क) ३  (ख) ४   (ग) ५
  3. उत्तररामचरिते कति अङ्काः सन्ति ?  (क) ६   (ख) ७   (ग) ८
  4. “एको रसः करुण एव निमित्तभेदात् ” केन नाटकेन सम्बद्धः भवति ? (क) उत्तररामचरितेन   (ख) मृच्छकटिकेन  (ग) दरिद्रचारुदत्तेन
  5. मुद्राराक्षसस्य कर्ता कः? (क) भट्टनारायणः   (ख) विशाखदत्तः (ग) जयदेवः
  6. मुद्राराक्षसे पर्वतकस्य पुत्रः कः? (क) श्वेतकेतुः   (ख) चन्दनदासः  (ग) मलयकेतुः
  7. चाणक्यस्य यथार्थनाम किम् ? (क) विष्णुगुप्तः  (ख) विराधगुप्तः   (ग) वररुचिः
  8. मुद्राराक्षसे कति अङ्काः सन्ति ? (क) ६   (ख) ७  (ग)  ८
  9. मुद्राराक्षसे मुद्रा केन सम्बद्धः भवति ? (क) चन्द्रगुप्तेन (ख) चाणक्येन  (ग) राक्षसेन
  10. “ऐश्वर्यादनपेतमीश्वरमयं लोकोSर्थतः सेवते ” केन नाटकेन सम्बद्धः भवति ? (क) वेणीसंहारेण  (ख) मृच्छकटिकेन  (ग) मुद्राराक्षसेन

ഈയാഴ്ചയിലെ വിജയി

DIVYACHITHRAN N V

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Divyachithran N V
  • Babu N S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”