Daily Archives: July 26, 2020

अद्य कार्गिल् विजयदिवसः, युद्धविजयस्य 21 तमं वयः।

नवदिल्ली- भारतस्य कार्गिल् युद्धविजयस्य अद्य 21 वयः। ओपरेशन् विजय् इति नामना स्थलसेनया तथा ओपरेशन् सफेद् सागर्  इति नाम्ना व्योमसेनया च संयुक्ततया कृते संग्रामे पाकिस्तानं विरुध्य भारतं विजयमवाप।

     युद्धे वीरमृत्युं प्राप्तानां 527 धीरसैनिकानां कृते श्तल-नाविक-व्योमसेनाविभागस्थाः अधिकारिणः दिल्ल्यां युद्धस्मारके पुष्पचक्रम्  समर्पयिष्यति।

     1999मेय-जूलै काले जम्मू काश्मीरे कार्गिल् प्रदेशे एव युद्धं समारब्धम्। पाक् सैन्यस्य सहयोगेन भीकराः सीमामतिक्रम्य अक्रमणमारभन्त। तदा एव भारतेन प्रत्यादेशो दत्तः

     18000 पादमिते ऊर्ध्वभागे शत्रुसैन्यैः प्रतिकूलसाहचर्यैश्च कृते आहवे एव ऐतिहासिकं विजयमवाप भारतम्। स्वर्गीयः अटल् बिहारी वाजपेयी वर्यः आसीत् तदानीन्तनः प्रधानमन्त्री।

मध्यप्रदेश मुख्यमन्त्रिणः कोविड् रोगबाधा।

भोपाल्- मध्यप्रदेशमुख्यमन्त्री तथा वरिष्ठः भा.ज.पा. नेता च शिवराज् सिंह् चौहान् वर्यः कोविड्-१९ रोगबाधितः अभवत्। कार्यमिदं स एव स्वकीये ट्विट्टर् द्वारा प्राकाशयन्।”

मम प्रियाः देशवासिनः मयि कोविड्-१९ रोगस्य लक्षणमासीत्। प्रथमे परीक्षणे मयि रोगबाधा स्थिरीकृता।”
इत्येव स ट्विट्टर् मध्ये सूचितवान्।

मुख्यमन्त्रिणा सह सम्पर्कं सञ्जातान् सर्वान् सम्पर्कनिरोधे प्रावासयत्।

PRASNOTHARAM (भागः – १४२) – 01-08-2020

EPISODE – 142

 

प्रश्नोत्तरम्।

 

 

 

 

  1. विद्धशालभञ्जिकायाः कर्ता कः? (क) राजशेखरः  (ख) मुरारिः  (ग) दिङनागः
  2. विद्धशालभञ्जिकायां कति अङ्काः सन्ति ? (क) ४   (ख) ५  (ग) ६
  3. “कर्पूरमञ्जरी ” केन विरचितं भवति ? (क) मुरारिः  (ख) राजशेखरः  (ग) जयदेवः
  4. कर्पूरमञ्जर्यां  कति अङ्काः सन्ति ? (क) ६  (ख) ५   (ग) ४
  5. “आश्चर्यचूडामणिः ” नाम नाटकस्य कर्ता कः ? (क) शक्तिभद्रः (ख) शूद्रकः  (ग) भासः
  6. “आश्चर्यचूडामणिः ” नाम नाटके कति अङ्काः सन्ति ? (क) ६   (ख) ७  (ग) ८
  7. “आश्चर्यचूडामणिः ” नाम नाटकस्य इतिवृत्तं कस्मात् स्वीकृतं भवति ? (क) रामायणात् (ख) महाभारतात्  (ग) लोककथायाः
  8. प्रबोधचन्द्रोदयस्य कर्ता कः ? (क) जयदेवः  (ख) कृष्णमिश्रः (ग) मुरारिः
  9. प्रबोधचन्द्रोदये कति अङ्काः सन्ति ? (क) ४  (ख)  ५  (ग) ६
  10. प्रसन्नराघवस्य कर्ता कः ? (क) जयदेवः (ख) मुरारिः  (ग) राजशेखरः

ഈയാഴ്ചയിലെ വിജയി

HARIKRISHNAN

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Harikrishnan
  • Aditya T
  • Adidev C S
  • Nileena Davis
  • Nayana Subhash
  • Krishnendu Sadanandan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”