विश्वेस्मिन् कोविड् रोगिणां संख्या एककोटिपरिमिता जाता।

वाषिङ्टण्- विश्वेस्मिन् कोरोणा विषाणुजन्या महामारी एककोटिपरिमितान् जनान् रोगिणः अकरोत्। पञ्चलक्षाधिकानां जनानां जीवहानिरपि रोगेणानेन जाता। विश्वे कोविड् व्याधिना ग्रस्ते १८४ दिने अतीते एव रोगबाधितानां संख्या एककोटिपरा जाता। एतावत्पर्यन्तं विषाणुव्यापनस्य वृद्धिरेव जायते न तु क्षयः इति विश्व-स्वास्थ्य-संस्थायाः सूचना।

चीनादेशस्य वुहान् मत्स्य-मांसापणात् उद्भूय आविश्वं जनान् परिभ्रान्तान् कुर्वन् अयं विषाणुः १८५ राष्ट्राणि अभिव्याप्य तिष्ठति।

अमेरिकायामेव रोगबाधितानां तथा मृतानां च संख्या अधिका दृश्यते। तत्र पञ्चविंशति लक्षं जनाः रोगबाधिताः १.२८ लक्षं जनाः मृताश्च सन्ति। द्वितीयस्थाने ब्रसील् राष्ट्रं तिष्ठति। तत्र १३.१५ लक्षं रोगिणः तेषु ५७१०३ जनाः मृताश्च।

रोगिणां संख्यासु तृतीयस्थाने रष्या चतुर्थस्थाने भारतं चास्ति। भारते ५.२ लक्षं जनेषु कोविड् स्थिरीकृता। १५००० जनाः मृताश्च सन्ति। दैनंदिनरोगिणां संख्यासु भारतं रष्याम् अतिक्रामति।

Leave a Reply

Your email address will not be published. Required fields are marked *