Monthly Archives: December 2019

PRASNOTHRAM (भागः १११) -28-12-2019

EPISODE – 111

 

प्रश्नोत्तरम्।

 

 

 

  1. बालः ग्रन्थं ——–। (क) पठामि   (ख) पठसि  (ग) पठति
  2. बालेन  —— पठ्यते  । (क) ग्रन्थः  (ख) ग्रन्थं  (ग) ग्रन्थाः
  3.  ——-फलं  खादति । (क) शुकाः (ख) शुकः  (ग) शुकौ
  4. शुकेन फलं  ———। (क) खाद्यते  (ख) खाद्यन्ते  (ग) खाद्येते
  5. जनाः कार्याणि  ——–। (क) करोति  (ख) कुरुतः  (ग) कुर्वन्ति
  6. जनैः  कार्याणि  ———-।(क) क्रियते  (ख) क्रियेते  (ग) क्रियन्ते
  7. नार्यः ——- क्रीणन्ति । (क) शाटिकाः  (ख) शाटिकैः (ग) शाटिकया
  8. ——— शाटिकाः क्रीयन्ते । (क) नार्यः  (ख) नारीभिः  (ग) नारी 
  9. अहं  त्वां ——–।  (क) पश्यसि (ख) पश्यामि  (ग) पश्यति
  10. मया त्वं ——-। (क) दृ्श्यसे  (ख) दृश्ये  (ग) दृश्यते 

ഈയാഴ്ചയിലെ വിജയി

Mahesh Krishna Tejaswi K

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍

  • Mahesh Krishna Tejaswi K
  • Athira Gopinath
  • Davis Ponnambalam
  • Dawn Jose
  • Adidev C S
  • Akhildev

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

केरल-साहित्य-अकादमीपुरस्काराः घोषिताः, नोवल् विभागे उष्णराशिः इत्यस्य पुरस्कारः।

तृशूर्- केरल-साहित्य-अकादमीपुरस्काराः तृशिवपुरे घोषिताः। के.वी. मोहन् कुमार् वर्यस्य उष्णराशि इति नोवल् श्रेष्ठकृतिरूपेण चिता। स्करिया सक्करिया नलिनी बेकल्, ओ.एं अनुजन्, एस् राजशेखरन्, मणम्पूर् राजन् बाबू इत्येते समग्रयोगदानपुरस्काराय अर्हाः अभवन्।

कैरलीसाहित्याय गण्यं योगदानमर्पितान् षष्टिवयसः अधिकान् साहित्यकारानेव समग्रयोगदानम् इति विभागे परिगणयन्ति।३०००० रूप्यकाणि साक्ष्यपत्रं सुवर्णोत्तरीयं फलकं च पुरस्कारे अन्तर्भवन्ति।

वी. मधुसूदनन् नायर् शशी तरूर् च केन्द्रसाहित्य अक्कादमीपुरस्कारेण आदृतौ।

नवदिल्ली- प्रशस्तः कैरलीकविः वी. मधुसूदनन् नायर् वर्याय केन्द्र साहित्य अक्कादमीपुरस्कार। अच्छन् पिरन्न वीट् इति काव्यस्यैव पुरस्कारः। आङ्गलविभागे आन् इरा आफ् डार्कनेस् इति ग्रन्थस्य रचयिता शशी तरूर् वर्यः पुरस्काराय अर्हो अभवत्।

एकलक्षं रूप्यकाणि प्रशस्तिपत्रं तथा फलकं च पुरस्कारे अन्तर्भवति। अक्षरोत्सवमभिलक्ष्य दिल्याम् आयोज्यमाने विशेषाधिवेशने फेब्रुवरी २५ दिनाङ्के पुरस्कारान् समर्पयिष्यति।

कैरलीविभागे पुरस्कारनिर्णेतारः भवन्ति डो. चन्द्रमती, एन्.एस् माधवन्, प्रोफ. तोमस् मात्यू च। डो. जी.एन्. देवी, डो. के. सच्चिदानन्दन्, प्रोफ. सूगन्धा चौधरी इत्येते आङ्गलविभागे पुरस्कारनिर्णेतारः आसन्। २३ भाषासु ग्रन्थानाम् अद्य पुरस्काराः घोषिताः

धर्मस्य सीमा नास्ति, अष्टसु राज्येषु हैन्दवानां न्यूनपक्षपदवीं प्रार्थयत् आवेदनं सर्वोच्चन्यायालयेन निरस्तम्।

नवदिल्ली- अष्टसु राज्येषु हैन्दवानां न्यूनपक्षपदवीं प्रार्थयत् आवेदनं सर्वेच्चन्यायालयेन निरस्तम्। भा.ज.पा दलस्य नेत्रा अश्विनी कुमार् उपाध्याय वर्येण २०१७ तमे वर्षे समर्पितम् आवेदनमेव एवं निरस्तम्।

     मिजोराम्, नागालान्ट्, मेघालय, जम्मू काश्मीर्, अरुणाचल् प्रदेश्, मणिपूर्, पञ्चाब् राज्येषु तथा लक्षद्वीपे च हैन्दवान् न्यूनपक्षाविभागान् कर्तुमेव आवेदने अभ्यर्थितमासीत्।

     राज्यस्याधारेण नास्ति, राष्ट्रस्याधारेणैव नूनपक्षनिर्णयः इति न्यायालयः अवदत्। धर्मः भारते सर्वत्र वर्तते न तु राज्यानां राष्ट्रियाधारेण इति मुख्यन्यायाधिपः असूचयत्। न्यूनपक्षनिर्णयाय विशेषमानदण्डस्यायोजनम् अशक्यम् इत्यपि स असूचयत्। पूर्वं सर्वकारीण न्यायविदग्दस्य अभिप्रायः न्यायालयेन चोदितः आसीत्।

नागरिक संशोधन विधेयकं विरुध्य अद्य संयुक्तसत्याग्रहः।

तिरुवनन्तपुरम्- नागरिकनियमं विरुध्य केरले प्रशासक-विपक्षदले संयुक्ततया सत्याग्रहसमरम् आयोजयतः। सोमवासरे प्रातः दशवादनात् मध्याह्ने एकवादनं यावत् पालयं रक्तसाक्षिमण्डपे एव सत्याग्रहः। संविधानविरुद्धं नागरिकनियमं प्रत्यपायनीयं संविधानमूल्यानि संरक्षणीयानि इत्यादीनी मुद्रावाक्यानि उन्नीयैव सत्याग्रहः।
मुख्यमन्त्री पिणरायि विजयः विपक्षदलनेता रमेश् चेन्नित्तला, मन्त्रिणः, वामपक्षीय लोकतान्त्रिक सन्नाहस्य तथा ऐक्यलोकतान्त्रिकसन्नाहस्य च नेतारश्च सत्याग्रहे भागं गृहीष्यन्ति। अस्य सर्वकारस्य काले केन्द्रनियमं विरुध्य प्रशासकविपक्षदलयोः संयुक्तसमरं प्रथममेव।
कला साह्त्य सांस्कृतिकमण्डलस्थाः प्रमुखाः लोकतन्त्रसंरक्षणार्थं प्रवर्तमानानि दलानि, नवोत्थानसमितिप्रवर्तकाश्च अस्मिन् समरे भागं गृह्णन्ति।

कष्टात् कष्टतरं गतम् (भागः ११०) 21-12-2019

EPISODE – 110

नूतना समस्या –

“कष्टात् कष्टतरं गतम्”

ഒന്നാംസ്ഥാനം

കാർഷികോല്പന്നവസ്തൂനാം
ന്യൂനംമൂല്യം ദിനേ ദിനേ
ജീവിതം കൃഷകാണാം തു
കഷ്ടാത് കഷ്ടതരം ഗതം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

संस्कृतसंभाषणपाठाः।

संस्कृतसंभाषणपाठाः।

PRASNOTHARAM(भागः ११०) – 21-12-2019

EPISODE – 110

 

प्रश्नोत्तरम्।

 

 

  1. “मधु +अरिः ” इत्यस्य सन्धिपदं लिखत। (क) मध्वारिः  (ख) मध्वरिः  (ग) मधारिः
  2.  “स्तोः श्चुना श्चुः  ” इति सूत्रस्योदाहरणं ———। (क) एतन्मुरारिः  (ख) तल्लयः  (ग) रामश्चिनोति
  3. अनुष्टुप् छन्दसि सर्वत्र लघुः कतमो वर्णः भवति ? (क) पञ्चमः  (ख) षष्ठः  (ग) सप्तमः
  4. सः शनैः शनैः  चरति इत्यत्र “शनैः ” अव्ययस्य उचितमर्थं स्यात्  (क) मन्दगत्या (ख) तीव्रगत्या (ग) मन्दस्वरेण
  5. जलं  ——- जीवनं  नास्ति । (क) खलु  (ख) विना  (ग) धिक्
  6. “भूभृत् ” शब्दस्य षष्ठी विभक्तिः बहुवचनरूपं किम् ? (क) भूभृताम्  (ख) भूभृत्सु (ग) भूभृतोः
  7. “आत्मन्  ” शब्दस्य द्वितीया विभक्तेः बहुवचनरूपं किम् ? (क) आत्मानम् (ख) आत्मानः  (ग) आत्मनः
  8. “अस्मद् ” शब्दस्य सप्तम्येकवचने किं रूपं भवति ? (क) अस्मदि  (ख) अस्मदे  (ग) मयि
  9. “हन् ” धातोः लट् लकारस्य प्रथमपुरुषस्य बहुवचने रूपं किम् ? (क) हतः  (ख) हन्ति  (ग) घ्नन्ति
  10. नैषधीयचरितस्य नायिका का ? (क) वसन्तसेना  (ख) दमयन्ती  (ग) मदनिका

ഈയാഴ്ചയിലെ വിജയി

SREESHA VINOD

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങൾ അയച്ചവര്‍

  • SREESHA VINOD
  • Jancy Joseph
  • Dawn Jose
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

 

Last date: 21-12-2019

षिन्सो आबे वर्यस्य भारतसन्दर्शनं निरस्येत।

टोक्कियो- रविवासरे भारतसन्दर्शनाय उद्यतः जपान प्रधानमन्त्री षिन्सो आबे वर्यः स्वकीयां यात्राम् उपेक्षयेत्। रविवासरादारभ्य  गुहावत्यां दिवसत्रयात्मकं शिखरसम्मेलनम् आयोजयितुं पूर्वं निश्चितमासीत्।

     इदानीं नागरिक संशोधन विधेयकम् अनुबन्ध्य आराष्ट्रं प्रक्षोभं प्रचलदस्ति। अतः शिखरमेलनस्य वेदिकापरिवर्तनं भवेदिति सूचना आसीत्। एतदनन्तरमेव जपान प्रधानमन्त्रिणः भारतसन्दर्शनम् उपेक्षितम् वर्तते।

     नागरिक संशोधन विधेयकस्य प्राबल्यं विरुध्य राष्ट्रे प्रचलितानि प्रक्षोभणानि आपाततः अक्रमासक्तानि जातानि। तस्मात् असमराज्यस्य राजधान्यां गुहावत्यामपि निरोधनाज्ञा घोषिता वर्तते। अपि च एतेषु प्रान्तेषु आन्तरजालसेवनमपि निरस्तं वर्तते। अत एव शिखरसम्मेलनस्य वेदिकापरिवर्तनं जातम्।

राष्ट्रिय पौरत्वविधेयकस्य राज्यसभायाः अनुमतिः।

नवदिल्ली- राष्ट्रिय पौरत्वविधेयकं राज्यसभया अनुमितम्। १२५ सदस्यानां सम्मतिः जाता। परं १०५ सदस्याः विरुद्धतां प्रकटयामासुः। विधेयकं चयनसमितं प्रषणीया इति आवेदनं पूर्वमेव राज्यसभायां मतदानेन निरुद्धमासीत्। तत्र १२४ सदस्याः चयनसमितिप्रेषणविषये विरोधं प्राकटयन्, परं ९९ सदस्याः अन्वकूलयन्। के.के. रागेष् वर्यः एव आवेदनं प्रस्तुतवान्।

पौरत्वविधेयकं न केभ्यो द्रुह्यति, न कस्यापि धर्मविभागस्य विरुद्धतां च जनयति इति केन्द्रीय गृहमन्त्री अमित् षा वर्यः अवदत्। न्यूनपक्षजनविभागानाम् अनीत्याशङ्का अस्थाने एवेत्यपि स अब्रवीत्।