राष्ट्रिय पौरत्वविधेयकस्य राज्यसभायाः अनुमतिः।

नवदिल्ली- राष्ट्रिय पौरत्वविधेयकं राज्यसभया अनुमितम्। १२५ सदस्यानां सम्मतिः जाता। परं १०५ सदस्याः विरुद्धतां प्रकटयामासुः। विधेयकं चयनसमितं प्रषणीया इति आवेदनं पूर्वमेव राज्यसभायां मतदानेन निरुद्धमासीत्। तत्र १२४ सदस्याः चयनसमितिप्रेषणविषये विरोधं प्राकटयन्, परं ९९ सदस्याः अन्वकूलयन्। के.के. रागेष् वर्यः एव आवेदनं प्रस्तुतवान्।

पौरत्वविधेयकं न केभ्यो द्रुह्यति, न कस्यापि धर्मविभागस्य विरुद्धतां च जनयति इति केन्द्रीय गृहमन्त्री अमित् षा वर्यः अवदत्। न्यूनपक्षजनविभागानाम् अनीत्याशङ्का अस्थाने एवेत्यपि स अब्रवीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *