Daily Archives: December 1, 2019

तदा मौनं समाश्रये (भागः १०८) – 07-12-2019

 

नूतना समस्या –

“तदा मौनं समाश्रये”

ഒന്നാംസ്ഥാനം

പലാണ്ഡുമൂല്യമത്യന്തം
വർധിതം ബഹുദുർല്ലഭം;
തസ്യാവശ്യം യദാ പ്രോക്തം
തദാ മൗനം സമാശ്രയേ

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM (भागः १०८) – 07-12-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. २०१९ तम वर्षस्य ज्ञानपीठपुरस्कारं कः प्राप्तवान् ? (क) कृष्णा सोब्टी  (ख) अमिताव् घोषः  (ग) अक्कित्तम्
  2. भाषा रामायणचम्पू केन विरचिता ? (क) सोमदेवेन  (ख) पुनं नम्पूतिरिणा (ग) रामपाणिवादेन
  3. मेघसन्देशे मेघस्य प्राप्यस्थानं कुत्र ? (क) अयोध्या  (ख) मधुरा  (ग) अलका
  4. जलं ददाति इति ——-। (क) जलदः  (ख) जलधिः  (ग) जलजम्
  5. सूर्यशतकस्य कर्ता कः? (क) नारायणभट्टतिरिः  (ख) मयूरकविः (ग) श्रीशङ्करः
  6. भागीरथी इति नाम्ना  प्रसिद्धा नदी का ? (क) यमुना (ख) गोदावरी (ग) गङ्गा
  7. विद्यारण्यमुनेः वेदान्तग्रन्थस्य नाम किम् ?(क) पञ्चदशी (ख) वेदान्तसूत्रम् (ग) ब्रह्मसूत्रम्
  8. केरलवाल्मीकिः इति प्रसिद्धः महाकविः कः ? (क) कुञ्जुकुट्टन् तम्पुरान्  (ख) सुकुमारकविः (ग) वल्लत्तोल् नारायणमेनोन्
  9.  ——— अर्थगौरवम् । (क) कालिदासस्य  (ख) भारवेः  (ग) माघस्य 
  10. दशपुत्रसमो ——-। (क) वापी  (ख) हृदः (ग) द्रुमः

ഈയാഴ്ചയിലെ വിജയി

GREESHMA FRANCIS

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Greeshma Francis
  • Sreesha Vinod
  • Adidev C S
  • Vivek Mohan
  • Gayathri Ramesh
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

संस्कृतं भारतस्य पैतृका सम्पत्त् – ई. चन्द्रशेखरः।

काञ्ञङ्ङाट् – संस्कृतं भारतदेशस्य महती पैतृका सम्पत्त्। तां परिरक्षितुं पोषयितुञ्च संस्कृताध्यापकैः सज्जनैश्च महान् यत्नः कर्तव्य इति केरलानां राजस्य भवननिर्माणमन्त्री श्री ई चन्द्रशेखरः अभिप्रैति स्म। षष्ठितम-स्कुल् कलोत्सवत्सानुबन्धत्वेन व्यापारभवने समायोजितायां सङ्गोष्ठ्यां उद्घाटनभाषणं कृतवानासीदयम्।

     श्री करुणाकरन् कुन्नत्त् (जिल्ला पञ्चायत्त् अध्यक्षः काञ्ञङ्ङाट्) अध्यक्षपदमलंकृतायां सभायां चत्वारः संस्कृतपण्डिताः समाद्रियन्त। वेदपण्डितः श्री माधवन् नम्पूतिरिः, श्री पिलाक्कोट् माधवपणिक्कर्, श्री दामोदरपणिक्कर्, श्री गोपालकृष्णभट्टश्चासन् ते। श्रेष्ठभारतं कार्यक्रमद्वारा सुपरिचितौ छात्रौ श्री राहुल्, श्री आदिदेवः च (कूटालि उच्चविद्यालयः कण्णूर्) आदरस्य पात्रीभूतौ अभवताम्।

      सार्वजनीनशिक्षानिदेशकः श्री जीवन् बाबु ऐ.ए.एस्, राज्यस्तरीय संस्कृतविशिष्टाधिकारिणी डो. टि.डी सुनीतिदेवी, कलोत्सवकार्यक्रमस्याध्यक्षः श्री सि.पि. सनल् चन्द्रः, श्री पि.वी. जयराजः, कासरगोड् विद्याभ्यासोपनिदेशिका श्रीमति के.वि. पुष्पा, श्री एन्. आर्. श्रीधर् च भाषणमकुर्वन्। संस्कृतभाषया बृहद् ऒप्पनायाः गानकर्ता डो. सुनिल् कमार् कोरोत्त् च सर्वेषां प्रेमभाजनमभवत्।

      ‘का संगतिः संस्कृतवाङ्मयस्य’ इति विषये श्री शङ्कराचार्यसंस्कृतविश्वविद्यालयस्य प्राध्यापकः डो.वि.आर्. मुरलीधरः मुख्यं भाषणमकरोत्। संस्कृतकलोत्सवाध्यक्षः डो.ई. श्रीधरः चर्चाचालकश्चासीत्। संस्कृतस्य पौराणिकी सम्पत्त् आधुनिककालेषु महती प्रचोदिकापि तस्याः कालानगुणम् उपयोगः संस्कृतज्ञैः सर्वैरेव करणीय इति सङ्गोष्ठीसदः उच्चैस्तरमुद्घोषयन्।

      सङ्गोष्ठीप्रचालनं प्रख्यापयन्ती दीपशिखा प्रातः अष्टवादने एव वेल्लिक्कोत्तु विद्यालयाङ्कणात् समारभ्य व्यापारभवनं समायाता। संस्कृताध्यापकसंघस्याध्यक्षः श्री सनल् चन्द्रः  दीपशिखाप्रयाणस्य मार्गदर्शकश्चासीत्।

संगोष्ठिदृश्यानि – click here….