Daily Archives: December 27, 2019

श्रेष्ठप्रशासनव्यवस्था- केरलम् अष्टमे स्थाने, प्रथमस्थाने तमिल्नाटु राज्यम्।

नवदिल्ली- राष्ट्रे श्रेष्ठं प्रशासनम् अनुवर्तमानेषु राज्येषु तमिल् नाटु राज्यं प्रथमस्थाने वर्तते। केन्द्रीय-वैयक्तिकमन्त्रालयस्य अनुसूचिकायामेव तमिल् नाटु राज्यस्य प्रकर्षः सूचितः। अनुसूचिकायां केरलम् अष्टमस्थाने वर्तते। द्वितीयस्थाने महाराष्ट्रराज्यमेव। कर्णाटकस्य तृतीयस्थानं वर्तते।

राज्य-केन्द्रभरणप्रदेशानां प्रशासनस्य श्रेष्ठतामवगन्तुं कृते मूल्याङ्कने त्रितलरीतिरेव अवलम्भिता। बृहन्ति राज्यानि उत्तरपूर्वगिरिसानुराज्यानि, केन्द्रप्रशासनप्रदेशाश्च एषु परिकल्पिताः।

छत्तीस्गढ् राज्यं चतुर्थे स्थाने, पञ्चमे आन्ध्राप्रदेशं, षष्टे गुजरात्, सप्तमे हरियाणा च। मध्यप्रदेशं नवमे स्थाने पश्चिमवंगः दशमे, तेलङ्काना एकादशे राजस्थान् द्वादशे, पञ्चाब् त्रयोदशे ओडीषा चतुर्दशे बिहार् पञ्चदशे गोवा षोडशे उत्तरप्रदेशः सप्तदशे झार्खण्ट् आष्टादशे च स्थाने वर्तते।

उत्तरपूर्व गिरिसानु राज्येषु हिमाचलप्रदेशः प्रथमस्थाने वर्तते।

केन्द्रप्रशासितप्रदेशेषु पोण्टिच्चेरी प्रथमस्थाने एव। प्रशासनव्यवस्था राज्यसर्वकाराणां योगदानं इत्यादीन्यनुसृत्यैव सूचिका सज्जीकृता।