Daily Archives: December 13, 2019

षिन्सो आबे वर्यस्य भारतसन्दर्शनं निरस्येत।

टोक्कियो- रविवासरे भारतसन्दर्शनाय उद्यतः जपान प्रधानमन्त्री षिन्सो आबे वर्यः स्वकीयां यात्राम् उपेक्षयेत्। रविवासरादारभ्य  गुहावत्यां दिवसत्रयात्मकं शिखरसम्मेलनम् आयोजयितुं पूर्वं निश्चितमासीत्।

     इदानीं नागरिक संशोधन विधेयकम् अनुबन्ध्य आराष्ट्रं प्रक्षोभं प्रचलदस्ति। अतः शिखरमेलनस्य वेदिकापरिवर्तनं भवेदिति सूचना आसीत्। एतदनन्तरमेव जपान प्रधानमन्त्रिणः भारतसन्दर्शनम् उपेक्षितम् वर्तते।

     नागरिक संशोधन विधेयकस्य प्राबल्यं विरुध्य राष्ट्रे प्रचलितानि प्रक्षोभणानि आपाततः अक्रमासक्तानि जातानि। तस्मात् असमराज्यस्य राजधान्यां गुहावत्यामपि निरोधनाज्ञा घोषिता वर्तते। अपि च एतेषु प्रान्तेषु आन्तरजालसेवनमपि निरस्तं वर्तते। अत एव शिखरसम्मेलनस्य वेदिकापरिवर्तनं जातम्।