Daily Archives: December 9, 2019

उपनिर्वाचने पराजयः, सिद्धरामय्या त्यागपत्रमदात्।

बङ्गलूरु- कर्णाटकविधानसभायाः १५ मण्डलेषु प्रचलिते उपनिर्वाचने कोण्ग्रेस् दलेन महान् पराजयः अपाप्तः। अतः कोण्ग्रेस् दलस्य विधानसभानेतृस्थानं विपक्षदलनेतृस्थानं च त्यक्तवान् सिद्धरामय्या वर्यः। पराजयस्य धार्मिकम् उत्तरदायित्वं स्वयं स्वीकृत्यैव तस्य स्थानत्यागः। प्रदेश काण्ग्रेस् अघ्यक्षः गुण्डुरावु वर्योरि त्यागपत्रं दातुं सन्नद्धः इति श्रूयते।

संस्कृतपठनम् अद्यापि प्रसक्तम्- मन्त्री कटकंपल्लि सुरेन्द्रन्।

तिरुवनन्तपुरम्- संस्कृतभाषा साहित्यपठनम् अद्यापि अतीव प्रसक्तमिति देवस्वं विभागमन्त्री अवदत्। तिरुवनन्तपुरं संसकृतकलालयस्य प्रत्यागमनं २०१९ इति पूर्वछात्रशिक्षकमेलनम् उद्घाटयन् भाषमाणः आसीदयम्।
अधःस्थितानाम् अनुसूचितजातीनां च कृते संस्कृतपठनं निषिध्यमाने काले तेषां कृते संस्कृतस्य वातायनम् उद्घाटयन्ती आसीदेषा कलाशाला इत्यपि स न्यगादीत्।
प्राचार्यचरा डो.लैला प्रसाद् वर्या अध्य़क्षा आसीत्। मधुरस्मितम् इति संस्कृते प्रथमस्य बालकानां चलनचित्रस्य निदेशकं सुरेष् गायत्री वर्यं अधिवेशने अभ्यनन्दयत्।