Monthly Archives: November 2019
कविः अक्कित्तं ज्ञानपीठपुरस्कारमवाप।
नवदिल्ली- विख्यातः कैरलीकविः अक्कित्तम् अच्युतन् नम्पूतिरिवर्यः ज्ञानपीठपुरस्कारेण बहुमानितः। साहित्यमण्डलाय दत्तं समग्रं योगदानमभिलक्ष्यैव अयं पुरस्कारः। दिल्याम् आयोजिता समितिः ऐककण्ड्येनैव जेतारं निरणयत्। ११ लक्षं रूप्यकाणि सरस्वतीशिल्पं च पुरस्कारे अन्तर्भवति। पालक्काट् कुमरनल्लूर् देशस्थः अच्युतन् नम्पूतिरिः ४३ परं कृतीः रचितवान्। ९३ तमे वयस्येव अस्य पुरस्कारलाभः।
इरुपतां नूट्टान्टिन्टे इतिहासम् इत्येेव तस्य प्रमुखा कृतिः। २०१७ तमे वर्षे पद्मश्रीपुरस्कारेणापि अयम् आदृत आसीत्। कैरलीभाषायै प्राप्तः षाष्टः पुरस्कारः भवत्ययम्।
केन्द्र-राज्य साहित्य अक्कादमिपुरस्कारौ एषुत्तच्छन् पुरस्कारश्च अक्कित्तं वर्येण प्राप्ताः।
षष्टितमः विद्यालयीयकलोत्सवस्य उन्मीलनं नवम्बर् २८ दिनाङ्के।
काञ्ञङ्ङाट्- केरल-सार्वजनीनशिक्षाविभागेन आयोज्यमानस्य विद्यालयकलोत्सवस्य कासरगोड् जनपदे काञ्ञङ्ङाट् देशे नवम्बर् २८ दिनाङ्के शुभारम्भः भविष्यति। प्रातः अष्टवादने मुख्यवेदिकायां सार्वजनीनशिक्षानिदेशकः जीवन् बाबू ऐ ए एस् वर्यः ध्वजारोहणं विधास्यति। ततः नववादने उद्घाटनाधिवेशनं भविता।
६० अध्यापकाः सम्भूय स्वागतगीतम् आलपिष्यन्ति। छात्राणां नृत्तशिल्पमपि भविता। केरलविधानसभाध्यक्षः पी. श्रीरामकृष्णन् वर्यः कलोत्सवस्य उद्घाटनं विधास्यति। राजस्वमन्त्री इ चन्द्रशेखरन् वर्यः अध्यक्षपदवीमलंकरिष्यति। मुख्यप्रभाषकः शिक्षामन्त्री प्रो. सी. रवीन्द्रनाथवर्यः तथा मुख्यातिथिः नौनिस्थानविभागमन्त्री कटन्नप्पल्लि रामचन्द्रन् वर्यः भवितारौ। लोकसभासदस्यः राजमोहन् उण्णित्तान् तथा विधानसभासामाजिकाः के.कुञ्ञिरामन्, एन्.ए. नेल्लिक्कुन्न्, ए राजगोपालः,ए.सी. खमरुद्दीन् च मुख्यातिथयः भवितारः।
मत्सरार्थं २८ वेदिकाः सज्जीकृताः। प्रातः नववादने प्रतिदिनं मत्सरमारभते। २३९ विभागे दशसहस्रपरिमिताः छात्राः पस्पर्धयिषवः सन्ति। तेषु विभागेषु उच्चविद्यालयस्य ९६, उच्चतरविद्यालयस्य १०५, संस्कृतोत्सवस्य १९, तथा अरबिकलोत्सवस्य १९ च अन्तर्भवन्ति।
८१८ विधिनिर्णेतृृणां सेवा सन्ति। पस्पर्धयिषूणां विधिकर्तृणां तथा समायोजकानां च कृते भोजनव्यवस्था सुसज्जा भवतिय़ पूर्णतया हरितानुशासनमनुसृत्यैव कलोत्सवः समायोज्यन्ते।
कलेत्सवस्य संघाटकसमितेः अध्यक्षः मन्त्री इ चन्द्रशेखरन् वर्यः भवति। मुख्यसमायोजकः के जीवन्बावू वर्यः(सार्वजनीनशिक्षानिदेशकः ) , रक्षाधिकारी डी सजित् बाबू (जिल्लाधिकारी ), उत्सवसञ्चालकः सि.ए. सन्तोष् वर्यः(शिक्षासहनिदेशकः,) च भवन्ति।
मत्सरार्थिनां प्रमाणपत्राणि पुरस्कारांश्च तत्तद्दिनेष्वेव वितरिष्यन्ते।
के.पि. अच्युतपिषारटिः दिवंगतः।
पालक्काट् – पिषारोटि समाजस्य कुलपतिः पण्डितवर्यश्च कोटिक्कुन्नत्तु पिषारत्त् अच्युतपिषारटिः (१०८) अद्य प्रातः ४.३० वादने दिवंगतो∫भवत्। मृतदेहं प्रभाते ९.३० कालपर्यन्तं पाम्पुपुरे श्रीमतः नारायणन्कुट्टि वर्यस्य सदने प्रदर्शनार्थं प्रस्थाप्य ततः स्वजन्मगृहं कोटिक्कु्न्नुभवनं नीतम्। ११ वादने पल्लिप्पुरं कोटिक्कुन्नुभवने संस्थाप्य सायं द्विवादने संस्कारकर्मं समभवत्। कोटिक्कुन्नत्त् तृक्कोविल् पिषारत्त् नारायणिक्कु्ट्टि पिषारस्यार् वर्यायाः तथा पुतुश्शेरि ब्राह्मणगृहजस्य पशुपतिवर्यस्य च पुत्रत्वेन लब्धजन्मा एष धन्यात्मा पट्टाम्बि पुन्नश्शेरि नीलकण्ठशर्मणः संस्कृतमपठत्। ततः १०३९ तमे , वर्षे अध्यापकपदे न्ययुङ्क्तो∫भवत्। पण्डितरत्नं, देवीप्रसादं इत्यादिभिः बहुभिः पुरस्कारैः पण्डितो∫यं समादृतः अभवत्। जीवितान्त्यं यावत् कर्मणि निरतस्य अस्य वियोगः न केवलं तत् समाजस्य किन्तु सर्वेषामपि सज्जनकुलानां महान् नष्ट एव।
मधुरस्मितम् – संस्कृतचलच्चित्रं दृश्यशालां प्राप्स्यति।
तिरुवनन्तपुरम् – सुरेष् गायत्री इति नवागतनिदेशकस्य निदेशने संस्कृतभाषायां प्रथमं बालकानां चलच्चित्रम्- मधुरस्मितम्- नवम्बर् २१ दिनांके दृश्यशालां प्राप्स्यति। सान्स्क्रीट् प्रोडक्शन्स् इति संस्कृताध्यापकानां छात्राणां भाषाकुतुकिनां च संहतेः ध्वजे संरचितस्यास्य चलच्चित्रस्य निर्माणकार्यकर्तारः भवन्ति एन्.के. रामचन्द्रन्, के.जी. रमाबाय्, ई मनोहरन्, बी.आर्. लाली च। निदेशाध्यक्षः निसार् वर्यः, मुख्यसहकारिनिदेशकः रस्सल् नियास् च।
शित्रायाः महत्वं लक्ष्यबोधं च उद्गीयमानस्य अस्य चलच्चित्रस्य कथा पटकथा च अरुण् नेल्लनाट् वर्येण विहिता। सम्भाषणं बिजिला किषोर् कुमार् विदधाति। गानरचयितारः सुरेष् विट्टियरं, डो. कुमार् जे तथा बिजिला किषोर् कुमार् च भवन्ति। संगीत निदेशकः राजेष् नारायणन्। रुग्मा, अय्मुना, अर्पणा श्रीकुमार्, आर्या एं नायर्, अद्वैत् इत्येते छात्राः गायकाः।
नूतनाभिनेतृृन् बालनटान् केन्द्रपात्राणि कृत्वा संरचिते अस्मिन् चलच्चित्रे अञ्जना, नित्या, आर्या, गौरी, तीर्त्था, महालक्ष्मी,आर्द्रा गैरीकृष्ण, वसिष्ठ्, उदय् नारायणन् प्रभृतयः छात्राः अभिनेतारः। छायाग्रहणम्-पी.सी. लाल्, सम्पादकः-जयचन्द्र कृष्ण, परिसंरचना- चित्राञ्जली, संस्कृतभाषायां संरचितं विश्वे प्रथमं बालकानां सामाजिकचलच्चित्रं भवति मधुरस्मितम्। अस्य चित्रस्य आयः प्रलयानन्तरकेरलपुनर्निर्माणाय मुख्यमन्त्रिणः दुरिताश्वासनिधौ अर्पयिष्यति।
दृश्यशालाः- तिरुवनन्तपुरम्- निला, तृशूर्- कैरली, पालक्काट्/चिट्टूर्- श्री।
शैशवं सर्वरञ्जकम् (भागः १०७)30-11-2019
EPISODE – 107
नूतना समस्या
“शैशवं सर्वरञ्जकम्”
ഒന്നാംസ്ഥാനം
നിർവ്യാജമധികം ഹൃദ്യം
ഉർവ്യാമാനന്ദദായകം
നവ്യാനുഭൂതിസമ്പന്നം
ശൈശവം സർവ്വരഞ്ജകം
Narayanan N
“അഭിനന്ദനങ്ങള്”
राज्यल्तरीयः विद्यालयकलोत्सवः,बृहत् ओप्पना प्रस्तूयते।
काञ्ञङ्ङाट्- केरलीय-सारवजनिकशिक्षाविभागस्य आभिमुख्ये एष्याभूखण्डस्य बृहत्तमः कलोत्सवः कासरगोड् जनपदे काञ्ञङ्ङाट् देशे आयोक्ष्यते। सप्तभाषासङ्गमभूमावस्यां अष्टाविंशतिवर्षानन्तरमेव अयं कलोत्सवः पुनरायाति।
कलोत्सवस्य उद्घाटनं नवंबर् २८ दिनाङ्के गुरुवासरे भविता। तद्दिने सांस्कृतिककार्यक्रममपि आयोक्ष्यते। तस्य भागत्वेन ओप्पना इति प्रान्तीयकलारूपस्य परिष्कृतरूपं संस्कृतभाषायां बृहत् ओप्पना नाम्नि प्रस्तूयते।
माप्पिलप्पाट्ट् इति गीतशाखायाः ईशल् आख्यं साहित्यभागं संस्कृतभाषायां रचितवान् श्रीमान् सुनिल् कुमार् कोरोत् वर्यः। कासरगोडे तच्चङ्ङाट् उच्चतरविद्यालये संस्कृताध्यापकोयं महाशयः तत्रत्याः २५० परिमिताः बालिकाः समायोज्यैव एतदर्थं सन्नह्यति। सजीवन् वेङ्ङाट् वर्यः कलारूपस्यास्य आशयमाविष्कृतवान्। निदेशनं नृत्यस्वरूपं च जुनैद् मोट्टम्मल् वर्यः समायोजयति।
विश्वे प्रप्रथमं एतत् कलारूपं कलोत्सवदिदृक्षूणाम् उत्सवाय नूनं भवेत्।
PRASNOTHARAM(भागः १०७) – 30-11-2019
प्रश्नोत्तरम्।
- भारतस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः कः?(क) शरत्अरविन्द बोब्डे (ख) रञ्जन् गोगोय् (ग) दीपक् मिश्र
- केरलस्य उच्चन्यायालस्य मुख्यन्यायाधीशः कः? (क) ऋषिकेश् रोय् (ख) एस् मणिकुमार् (ग) आन्टणी डोमिनिक्
- भारतस्य राष्ट्रपतिः कः ? (क) वेङ्कय्य नायि़डु (ख) प्रणब् मुखर्जी (ग) रांनाथ् कोविन्दः
- केरलस्य राज्यपालः कः ? (क) पी सदाशिवम् (ख) आरिफ् मुहम्मद् खान् (ग) अच्युतानन्दः
- २०१८ तम वर्षस्य ज्ञानपीठपुरस्कारं कः प्राप्तवान् ? (क) अमिताव् घोषः (ख) कृष्णा सोब्टी (ग) शङ्का घोषः
- २०१९ तम वर्षस्य एषुत्तच्छन् पुरस्कारं कः प्राप्तवान् ? (क) एम् टी वासुदेवन् नायर् (ख)एम् मुकुन्दः (ग) आनन्दः
- श्रीशङ्कराचार्य संस्कृतसर्वकलाशाला कस्मिन् वर्षे समारब्धा ? (क) १९९२ (ख) १९९३ (ग)१९९४
- श्रीशङ्कराचार्य संस्कृतसर्वकलाशालायाः इदानींतन कुलपतिः कः ? (क) डोः आर् रामचन्द्रन् नायर् (ख) डोः जे प्रसादः (ग)डोः धर्मराज् अटाट्ट्
- कोषिक्कोट्तः प्रसिद्धीकृता संस्कृतमासिकी का ? (क) रसना (ख) त्रिमधुरम् (ग)सन्देशः
- प्रथम ३डि(3D)संस्कृतचलनचित्रं किम् ? (क) अनुरक्तिः (ख) पुण्यकोटिः (ग) सूर्यकान्तः
ഈയാഴ്ചയിലെ വിജയി
THRISHA N
“അഭിനന്ദനങ്ങള്”
10 ശരിയുത്തരങ്ങള് അയച്ചവര്
- THRISHA N
- Sreesha Vinod
- Dawn Jose
- Gayathri P B
- Adidev C S
“പങ്കെടുത്തവര്ക്കെല്ലാം അഭിനന്ദനങ്ങള്”
विद्यालये सर्पदंशनेन छात्रा मृता। अधिकारिणाम् अनास्था इति बालिकायाः पिता।
सुल्त्तान् बत्तेरी- वयनाट् मण्डले सुल्तान् बत्तेरी स्थले सर्वकारीण सर्वजना उच्चतरविद्यालये कक्ष्याप्रकोष्ठात् सर्पदंशनेन बालिका मृता। षष्ठकक्ष्याछात्रा षह्ला षेरिन् नामिका एवेदृशं हता अभवत्। छात्रायाः अपघाते जाते तत् सर्पदंशनेनेति विद्यालयाधिकारिणः नावदन् इति षह्लायाः पिता अवदत्।
अधिकृतानाम् अनास्थया इदमभवत् इति वार्तामाध्यमानामपि आवेदनमस्ति। सा खाते पतिता ईषद् व्रणिता इत्येव विद्यालयाधिकारिणः रक्षितारमवदन्। यथासमयं सा चिकित्सालये प्रवेशिता चेत् रक्षितुं शक्या स्यात् इति आक्षेपः अस्ति।
घटनायामस्यां बालाधिकारायोगः स्वमेधया व्यवहारं स्वीचकार। मण्डलाधिकारी, आरक्षकदलमेधावी शिक्षा उपनिदेशकश्च पञ्चदशदिनाभ्यन्तरे अन्वेषणं विधाय आवेदनं समर्पयेयुः।
विद्यालयात् चिकित्सालयं प्रापितायाः बालिकायाः चिकित्साविषये चिकित्सालयाधिकृतानामप्यनास्था जाता। अत्रत्यौ द्वौ भिषग्वरौ तथा बालिकायाः कक्ष्याध्यापकं च सेवनात् उत्सृजति स्म।
शबरीमला शासननिर्वहणार्थं पृथक् नियमः आवश्यकः, सर्वोच्चन्यायालयः।
नवदिल्ली- शबरिमला मन्दिरस्य प्रशासननिर्वहणार्थं पृथक् नियमः आवश्यकः इति सर्वेच्चन्यायालयः। प्रतिवर्षं ५० लक्षपरिमिताः तीर्थाटकाः अत्रागच्छन्ति। इतरैः मन्दिरैः सह शबर्मलमन्दिरस्य तारतम्यं मा भूत् इति न्यायालयः व्यक्तमकरोत्। एतद्विषये अद्यैव प्रत्युत्तरं दातव्यमिति न्यायालयः केरलसर्वकारं निरदिशत्।
शबरिमलामन्दिराय पृथक् नियमस्य आयोजने प्रतिबन्धः कः इति न्यायाधीशः एन्.वी. रमणावर्यः सर्वकारमपृच्छत्। तदर्थमद्य साहचर्यमस्ति। अयं व्यवहारः सप्ताङ्गसंवेशनस्य परिगणनायै प्रेषितो वर्तते। तत्र निर्णयः विरुद्धः चेत् कथं लिङ्गसमत्वमिति बुध्या मन्दिरे स्त्रीणां नियुक्तिः साधु भवेत् इति च न्यायाधीशः अपृच्छत्।
तिरुवितांकूर् देवस्वं बोर्ड् इति संस्थानस्य परिधौ सर्वेषां मन्दिराणां प्रशासननिर्वहणार्थं पृथक् नियमं रूपवत्कर्तुं राज्यसर्वकारैः निर्णीतः आसीत्। एतद्विरुध्य पन्तलं राजपरिवारस्य आवेदने एव सर्वोच्चन्यायालयस्य अयं निर्देशः।
फात्विमायाः मृत्युः- गार्हिकम् अन्वेषणं नास्तीति ऐ.ऐ.टी.- छात्राः समराङ्गणे।
चेन्नै- फात्विमायाः मृत्युविषये आभ्यन्तरम् अन्वेषणं कर्तुं सन्नद्धता नास्तीति मद्रापुरी भारतीय-प्रौद्योगिक-संस्था(ऐ.ऐ.टी., मद्रास् )। अनेन आभ्यन्तरम् अन्वेषणम् अभ्लक्ष्य ऐ.ऐ.टी. छात्राः अनिश्चितकालीनं निराहारसमरम् आरभन्त। आगस्करम् आरोपितान् शिक्षकान् अन्वेषणार्थमे उपस्थातुम् अपाचारान्वेषणविभागः निरदिशत्।
प्रातः ११ होरायाः आरभ्यैव छात्राः समरमारभन्त। बहिः रक्षिदलान्वेषणं प्रचलदस्तीत्यतः आभ्यन्तरम् अन्वेषणं संस्थया निरस्यते।
एतदन्तरे फात्विमायाः मरणमुपलक्ष्य लोकसभायां पृथक् चर्चा प्रचलिष्यति। द्रविड-मुन्नेत्र-कषकं दलस्य सदस्याः तदा कोल्लं मण्डलसदस्यः एन्.के. प्रेमचन्द्रन् च एतदर्थम् आवेदनमुन्नीतवन्तः