Monthly Archives: December 2019

नागरिक संशोधन नियमं प्रतिकूल्य केरल विधानसभायां प्रमेयः, मुख्यमन्त्रिणं विरुध्य अधिकारलंघनव्यपदेशः।

नवदिल्ली- केरलविधानसभायाम् अद्य प्रस्तुतः नागरिकसंशोधननियमप्रतिकूली प्रमेयः जनसभायाः अधिकारलङ्घनमेवेति भा.ज.पा. सदस्यः नरसिंहरावु वर्यः। स केरलमुख्यमन्त्रिणं विरुध्य अधिकारलङ्घनव्यपदेशः प्रस्तुतवान्। केरलविधानसभायाः अयं श्रमः प्राशासनिकमण्डले अस्थिरतां जनयति इति नरसिंहरावुवर्यः असूचयत्।

अधिकारलङ्घनव्यपदेशः शुक्रवासरे सम्पत्स्यमानायां समित्यामेव परिगणनीयः इति स आवेदयति स्म। केरल विधानसभायां प्रमयस्य प्रतिकूले एकमङ्गमेवासीत्। अन्ये सर्वे प्रमेयं समर्थयन्ति स्म।

सज्जनो दुर्जनायते (भागः ११२) – 04-01-2020

EPISODE – 112

नूतना समस्या –

“सज्जनो दुर्जनायते”

ഒന്നാംസ്ഥാനം

വിവേകോ ഹി മനുഷ്യസ്യ
സർവോത്കൃഷ്ടം ധനം ഖലു
ധ്രുവം,തേന വിഹീനസ്തു
സജ്ജനോ ദുർജ്ജനായതേ.

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

उटुप्पि पेजावार् मठाधिपः विश्वेशतीर्थस्वामी समाधिमापन्नः।

उटप्पी-  पेजावारमठाधिपतिः विश्वेशतीर्थस्वामी समाधिमाप्तः एते 88 वयस्काः आसन्।  न्यूमोणिया इति श्वासकोषामयेन आन्तरिकावयवानां प्रवर्तनस्तम्भ  एव मृत्युकारणम्। श्वासभङ्गेन स्वामिनं मणिप्पाल् कस्तूर्बा चिकित्सालं दिसम्बर् 20 दिनाङ्के प्रावेशयत्। तदनि एकसप्ताहं यावत् तीव्रपरिचरणविभागे आसीत्।

उटुप्पा अष्टमठेषु अन्यतमः भवति पेजावारमठः चिकित्सालयात् स्वामिनः इच्छानुसारं तं मठं पुनः प्रावेशयितुं मठाधिकृताः पण्डितवर्याश्च निरणयन्। तदनुसारं रविवासरे पातः चिकित्सालयात् तं मठ् प्रावेशयत्। ततः स्वामी तत्रैव समाधिं प्राप्तवान्।

 

PRASNOTHARAM (भागः ११२) – 04-01-2020

EPISODE – 112

 

प्रश्नोत्तरम्।

 

 

 

  1. छात्रः विद्यालयम्  ———-। (क) अगच्छः  (ख) अगच्छत्  (ग) अगच्छम्
  2. पितामही कथाम्  ———-। (क) अकथयत्   (ख) अकथयताम् (ग) अकथयः
  3.  ——— पाकम् अकरोत् । (क) ते  (ख) ताः  (ग) सा
  4.  ——— उत्तराणि अलिखन् ।(क) छात्रः  (ख) छात्रौ (ग) छात्राः
  5. पाचिका ——– अकर्तयत् । (क) शाकान्  (ख) शाकः  (ग) शाके
  6. ——–नाणकानि अयच्छन् । (क) धनिकः  (ख) धनिकाः  (ग) धनिकौ 
  7. ——– शाटिकाः अक्रीणात् । (क) महिला  (ख) महिले   (ग) महिलाः 
  8. गायकः  गीतानि ——–। (क) अगायः  (ख) अगायत्  (ग) अगायम्
  9. त्वं कुत्र  ——–। (क) अगच्छत्  (ख) अगच्छम्  (ग) अगच्छः
  10. अहं पायसम्  ———। (क) अपिबत्  (ख) अपिबम्  (ग) अपिबः 

ഈയാഴ്ചയിലെ വിജയി

GREESHMA FRANCIS

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • GREESHMA FRANCIS
  • Seetha Kapothan
  • Maya P R
  • Sreesha Vinod

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

ब्रिट्टीष् विद्याभ्याससम्प्रदायेन भारतीयशास्त्रपुरोगतिः विगणिता – वि मुरलीधरः।

आलूर् -चतुर्दशशतककालीनं ज्योतिशास्त्रज्ञं संगमग्राममाधवम्  अनुस्मरन् बहुमान्यः केन्द्रीयमन्त्री वि मुरलीधरः न्यगादीत् यत् भारतीयगणितपद्धतेः खगोलशास्त्रस्य च परम्परायां संगमग्राममधवस्य मुख्यं स्थानमस्तीति। तृशूर् जिल्लायां इरिङ्गालक्कुटा-आलूर् प्रादेशिको∫यं शास्त्रज्ञः इरिङ्ङाटप्पिल्लि नामके गृहे १३४० तमे वर्षे जन्म प्राप्तवान्। तस्य प्रशस्तज्योतिशास्त्रग्रन्थः भवति गोलवादः।  तस्य अनुस्मरणार्थम् आयोजितं सम्मेलनं समुद्घाटयन्  आलूर् श्रीनारायणमण्डपे भाषमाणः केन्द्रमन्त्री अद्यतनवर्षस्य माधवगणितपुरस्कारान्  समर्पितवान्।  सम्मेलने∫स्मिन् पूर्वतन पि.एस्.सि अध्यक्षः श्री के.एस् राधाकृष्णमहोदयः अध्यक्षपदमलंकृतवान्। कॊच्चिन् मरैन् सर्वकलाशालायाः उपकुलपतिः आलप्पाट् रामचन्द्रः, एन्.सि इन्दुचूडः, सतीशन् अविट्टत्तूर्, ए विनोदः, सुभाष् च भाषणमकुर्वन्।

 

श्रेष्ठप्रशासनव्यवस्था- केरलम् अष्टमे स्थाने, प्रथमस्थाने तमिल्नाटु राज्यम्।

नवदिल्ली- राष्ट्रे श्रेष्ठं प्रशासनम् अनुवर्तमानेषु राज्येषु तमिल् नाटु राज्यं प्रथमस्थाने वर्तते। केन्द्रीय-वैयक्तिकमन्त्रालयस्य अनुसूचिकायामेव तमिल् नाटु राज्यस्य प्रकर्षः सूचितः। अनुसूचिकायां केरलम् अष्टमस्थाने वर्तते। द्वितीयस्थाने महाराष्ट्रराज्यमेव। कर्णाटकस्य तृतीयस्थानं वर्तते।

राज्य-केन्द्रभरणप्रदेशानां प्रशासनस्य श्रेष्ठतामवगन्तुं कृते मूल्याङ्कने त्रितलरीतिरेव अवलम्भिता। बृहन्ति राज्यानि उत्तरपूर्वगिरिसानुराज्यानि, केन्द्रप्रशासनप्रदेशाश्च एषु परिकल्पिताः।

छत्तीस्गढ् राज्यं चतुर्थे स्थाने, पञ्चमे आन्ध्राप्रदेशं, षष्टे गुजरात्, सप्तमे हरियाणा च। मध्यप्रदेशं नवमे स्थाने पश्चिमवंगः दशमे, तेलङ्काना एकादशे राजस्थान् द्वादशे, पञ्चाब् त्रयोदशे ओडीषा चतुर्दशे बिहार् पञ्चदशे गोवा षोडशे उत्तरप्रदेशः सप्तदशे झार्खण्ट् आष्टादशे च स्थाने वर्तते।

उत्तरपूर्व गिरिसानु राज्येषु हिमाचलप्रदेशः प्रथमस्थाने वर्तते।

केन्द्रप्रशासितप्रदेशेषु पोण्टिच्चेरी प्रथमस्थाने एव। प्रशासनव्यवस्था राज्यसर्वकाराणां योगदानं इत्यादीन्यनुसृत्यैव सूचिका सज्जीकृता।

अस्य दशकस्य बृहत्तमं सूर्यग्रहणं दिसम्बर् २६ तमे दिनाङ्के।

तिरुवनन्तपुरम्- सूर्यग्रहणं प्रत्युद्गन्तुं केरलाः सज्जाः भवन्ति। दिसम्बर् २६ तमे दिनाङ्के प्रातः ८.०५ तः ग्रहणं दृश्यं स्यात्। आधुनिकशास्त्रावबोधस्य न्यूनावस्थायाम् बहवः अन्धविश्वासाः ग्रहणमधिकृत्य प्रचलिताः आसन्। ग्रहणसमये जनाः भीताः सन्तः गृहान्तर्भागे तिष्ठन्तः आसन् अनतिविदूरे काले। अद्यापि तादृशाः विश्वासाः जनानां मध्ये सन्ति। साङ्केतिकविद्यायाः अतिद्रुतप्रगतावपि असमाभिः अन्धविश्वासाः न त्यक्ताः इत्येतत् विरोधाभास एव।

शास्त्रीयं विज्ञानम् अधिगन्तुं तत् इतरेभ्यो वितरीतुम् असुलभः अवसर एवाधुना समायातः। विद्यालयेषु इतरेषु विज्ञानकेन्द्रेषु च सूर्यग्रहणं निरीक्षितुम् अवसरः समायोजयन्ति। एतद् विज्ञानं समार्जयितुं सर्वे बद्धश्रद्धाः भवेयुरिति मुख्यमन्त्री अवदत्।

सेनानाम् एकोपनाय एकव्यक्तिः, चीफ् आफ् डिफन्स् स्टाफ् इति पदव्यां नियुक्त्यर्थं केन्द्रप्रशासनस्य अङ्गीकारः।

नवदिल्ली- भारते सर्वसेनाङ्गानां मुख्यः(सी.डी.एस्) पदवीमायोजयितुं केन्द्रसर्वकारः अङ्गीकारमदात्। नूतनत्वेन रूपवत्क्रियमाणस्य सेनाविभागस्य मेधावी जनरल् पदवीयुक्तः सी डी एस् भविता।

सेनाविभागस्य सचिवानां ये अधिकाराः सन्ति ते सी डी एस् इति सेनामुख्यस्यापि भविष्यतीति मन्त्री प्रकाश् जावदेक्कर् वर्यः अवदत्। अपि च सर्वकारस्य सैनिकोपदेष्टा तथा सैन्याधिपसमितेः अध्यक्षश्च सी डी एस् एव भविष्यति।

स्थलसेना नौसेना वायुसेना इत्येतेषां अधिपेषु वरिष्ठः भवेत् सेनामुख्यः। अनेन सेनात्रयस्य प्रवर्तनानाम् एकोपनं सुगमं भविष्यति।

दिल्लां पुनरपि अग्निबाधा नव जनाः मृताः।

नवदिल्ली- उत्तरदिल्यां सञ्जातायाम् अग्निबाधायां नव जनाः मृताः। १२.३० वादने वस्त्रसंभरणशालायामासीत् अग्निबाधा। अट्टत्रयप्रासादस्य निम्नतरनिलये एव सम्भरणशाला स्थिता वर्तते। ततः बहिः गन्तुं एक एव सोपानमार्गः अस्ति। अपि च अग्निं शमयितुम् उपायाः न सज्जीकृताः आसन्। एतत्सर्वं दुरन्तस्य आघातं वर्धयामास।

दहनतप्तान् समीपस्थे सञ्जयगान्धी चिकित्सालये प्रावेशयत्।

भूयाद् वर्षं सुखप्रदम् (भागः १११) – 28-12-2019

EPISODE – 111

नूतना समस्या –

“भूयाद् वर्षं सुखप्रदम्”

ഒന്നാംസ്ഥാനം

സ്നേഹവിശ്വാസയുക്തേന
ഉത്കൃഷ്ടഗുണകർമണാ
ഐശ്വര്യദായകം ഹൃദ്യം
ഭൂയാത് വർഷംസുഖപ്രദം.

Narayanan N

“അഭിനന്ദനങ്ങള്‍”