विद्यालये सर्पदंशनेन छात्रा मृता। अधिकारिणाम् अनास्था इति बालिकायाः पिता।

सुल्त्तान् बत्तेरी- वयनाट् मण्डले सुल्तान् बत्तेरी स्थले सर्वकारीण सर्वजना उच्चतरविद्यालये कक्ष्याप्रकोष्ठात् सर्पदंशनेन बालिका मृता। षष्ठकक्ष्याछात्रा षह्ला षेरिन् नामिका एवेदृशं हता अभवत्। छात्रायाः अपघाते जाते तत् सर्पदंशनेनेति विद्यालयाधिकारिणः नावदन् इति षह्लायाः पिता अवदत्।
अधिकृतानाम् अनास्थया इदमभवत् इति वार्तामाध्यमानामपि आवेदनमस्ति। सा खाते पतिता ईषद् व्रणिता इत्येव विद्यालयाधिकारिणः रक्षितारमवदन्। यथासमयं सा चिकित्सालये प्रवेशिता चेत् रक्षितुं शक्या स्यात् इति आक्षेपः अस्ति।
घटनायामस्यां बालाधिकारायोगः स्वमेधया व्यवहारं स्वीचकार। मण्डलाधिकारी, आरक्षकदलमेधावी शिक्षा उपनिदेशकश्च पञ्चदशदिनाभ्यन्तरे अन्वेषणं विधाय आवेदनं समर्पयेयुः।
विद्यालयात् चिकित्सालयं प्रापितायाः बालिकायाः चिकित्साविषये चिकित्सालयाधिकृतानामप्यनास्था जाता। अत्रत्यौ द्वौ भिषग्वरौ तथा बालिकायाः कक्ष्याध्यापकं च सेवनात् उत्सृजति स्म।

Leave a Reply

Your email address will not be published. Required fields are marked *