शबरीमला शासननिर्वहणार्थं पृथक् नियमः आवश्यकः, सर्वोच्चन्यायालयः।

नवदिल्ली- शबरिमला मन्दिरस्य प्रशासननिर्वहणार्थं पृथक् नियमः आवश्यकः इति सर्वेच्चन्यायालयः। प्रतिवर्षं ५० लक्षपरिमिताः तीर्थाटकाः अत्रागच्छन्ति। इतरैः मन्दिरैः सह शबर्मलमन्दिरस्य तारतम्यं मा भूत् इति न्यायालयः व्यक्तमकरोत्। एतद्विषये अद्यैव प्रत्युत्तरं दातव्यमिति न्यायालयः केरलसर्वकारं निरदिशत्।

     शबरिमलामन्दिराय पृथक् नियमस्य आयोजने प्रतिबन्धः कः इति न्यायाधीशः एन्.वी. रमणावर्यः सर्वकारमपृच्छत्। तदर्थमद्य साहचर्यमस्ति। अयं व्यवहारः सप्ताङ्गसंवेशनस्य परिगणनायै प्रेषितो वर्तते। तत्र निर्णयः विरुद्धः चेत् कथं लिङ्गसमत्वमिति बुध्या मन्दिरे स्त्रीणां नियुक्तिः साधु भवेत् इति च न्यायाधीशः अपृच्छत्।

     तिरुवितांकूर् देवस्वं बोर्ड् इति संस्थानस्य परिधौ सर्वेषां मन्दिराणां प्रशासननिर्वहणार्थं  पृथक् नियमं रूपवत्कर्तुं राज्यसर्वकारैः निर्णीत‌ः आसीत्। एतद्विरुध्य पन्तलं राजपरिवारस्य आवेदने एव सर्वोच्चन्यायालयस्य अयं निर्देशः।

Leave a Reply

Your email address will not be published. Required fields are marked *