Daily Archives: November 14, 2019

शबरिमला नारीप्रवेशनविषयः सर्वोच्चन्यायालयेन सप्ताङ्ग-संविधान-संवेशनाय प्रेषितः।

नवदिल्ली- शबरिमला विषये पुनःपरिशोधना आवेदनं सर्वोच्चन्यायालयेन सप्ताङ्गसंवेशनाय कल्पितः। विशाल संवेशनस्य निर्णयानन्तरमेव नारीप्रवेशविषये भूतपूर्वः निर्णयः पुनःपरीक्षणीयो वा न वेति निर्णयः भविता। मुख्यन्यायाधीशस्य आध्यक्ष्ये पञ्चाङ्गसंवेशनस्य अभिप्रायः भवत्ययम्।

२०१८ सेप्तम्बर् २८ तमे दिनाङ्के तदानीन्तन‌स्य मुख्यन्यायाधीशस्य दीपक् मिश्रा वर्यस्य आध्यक्ष्ये पञ्चाङ्ग-संविधानसंवेशनमेव नारीप्रवेशविषये निर्णयम् अनयत्। एष निर्णयः अधुना एव पुनः शोधनार्थं विशालसंवेशनस्य पुरतः आगतः।

५६ पुनः शोधना आवेदनानि अस्मिन् विषये न्यायालयस्य पुरतः आगतानि। मुख्यन्यायाधिपः एव नूतनं विशालसंवेशनं रूपवत्करोति। तत्र त्रीणि अङ्गानि अधुना संस्थितात् संवेशनादेव स्युः।

धर्मस्य आधिकं प्राधान्यमस्तीति विधिप्रस्तावे न्यायालयः असूचयत्। मुस्लीं पार्सी धर्मावलम्बिनां मध्येपि आराधनालये नारीणां प्रवेशविषये विवादाः सन्ति। एते शबरिमलाविषयेन सह सम्बद्धा अपि भवन्ति इत्यपि न्यायालयेन सूचितम्।