Daily Archives: November 9, 2019

अयोध्याव्यवहारे सर्वोच्चन्यायालयस्य न्यायविधिनिर्णयः अद्य।

नवदिल्ली-  अयोध्याव्यवहारे राष्ट्रम् आकाङ्क्षया वीक्ष्यमाणा न्यायविधिनिर्णयः सर्वोच्चन्यायालयेन शनिवासरे प्रस्तोष्यते। प्रातः 10.30 वादने मुख्यन्यायाधीशस्य रञ्जन् गोगोय्वर्यस्य आध्यक्ष्ये न्यायालयसंवेशनमेव विधिं प्रस्तुवति।

     मुख्यन्यायाधीशः रञ्जन् गोगोय्, एस्, ए. बोब्डे, डी.वै चन्द्रचूड्, अशोक् भूषण्, अब्दुल् नासर् इत्येये न्यायाधीशाश्च सम्भूय एव विधिप्रस्तावं कुर्वते। विधिप्रस्तावात् प्राक् उत्तरप्रदेशस्य मुख्यसचिवम् आरक्षिदलनेतारं च आहूय मुख्यन्यायाधीशः स्थितिगतीः अधिकृत्य विचारयामास।

     शनिवासरे विरामः अस्ति चेदपि मुख्यन्यायाधीशस्य संवेशनं पृथक् अधिवेशनं विधाय विधिप्रस्तावं करिष्यति। सर्वोच्चन्यायालये दिल्लीमहानगरम् आसमन्ताच्च भद्रा सुरक्षा आयोजिता वर्तते। अङ्गीकारयुक्ताः माध्यमप्रवर्तकाः विधिप्रस्तावावेदनार्थं प्रातः नववादनात् प्राक् न्यायालयम् आगच्छेयुरिति निर्दिष्टाः। 1885 वर्षात् प्रभृति नियमव्यवहारे एव अद्य विधिः प्रस्तूयते।