Daily Archives: November 8, 2019

महान् हिमपातः, काश्मीरे मृतानां संख्या नव जाता।

श्रीनगरम्- काश्मीरे महान् हिमपातः अनुवर्तते। द्वयोः घटनयोः एतावता नव जनाः मृताः इत्यावेदयति। सैन्याय सामग्रीं प्रापयन्तौ प्रदेशवासिनौ द्वावपि मृतेषु अन्तर्भवतः। महान् हिमसंघातः स्खलतः सन् एषाम् उपरि फतन् आसीत्। कुप्वुवारा पोस्ट् समीपं गुरुवासरे प्रातः आसीत् एषा घटना।

     वैद्युतिसम्बन्धिषु वृत्तिषु  व्यापृतः ऊर्जविकासविभागस्य परीक्षकः तथा वृक्षपातेन एकः यात्रिकश्च मृतः। द्वौ सैनिकौ यानापघाते मृतौ। मृतानां परिवारेभ्यः समाश्वास धनादेशः सर्वकारेण घोषितः