‘बालविभूषण सम्मान 2019’ (संस्कृत बालसाहित्य परिषद्, पुद्दुचेरी )

प्रियमित्राणि,
पुद्दुचेरीस्थितस्य श्रीअरविन्द-भारतीय-संस्कृति-केन्द्रस्य(SAFIC) पक्षतः संस्कृतबालसाहित्यस्य संरक्षण-सर्वेक्षण-प्रकाशन-संवर्धनार्थं संस्कृतबालसाहित्यपरिषत् 2014 ईशवीयसंवत्सरस्य अगष्टमासे पञ्चदशदिनाङ्के संघटिता। इदानीं यावत् परिषत्पक्षतः 5 राष्ट्रियसंगोष्ट्यः, 5 वार्षिकोपवेशनानि, 6 शिशुकवितापाठोत्सवाः, बालगोष्ठी, क्रीडागोष्ठी, दशाधिकसंस्कृतप्रकाशनानि च अभवन्। तदा तदा उत्तमकवितालेखकानां प्रोत्साहनार्थं पुरस्काराः प्रदत्ताः। परन्तु संस्कृतबालसाहित्यनिर्मातॄणां प्रोत्साहनाय इतोऽपि कार्यक्रमाः आयोजनीयाः।

बालसाहित्यनिर्माणे सामग्रिकमवदानं विचार्य अस्मात् वर्षात् एकस्मै उत्तमसंस्कृतबालसाहित्यसर्जकाय परिषत्पक्षतः सम्मानना करिष्यते। अतः जुलै-अन्तिमदिनं यावत् प्राप्तानि आवेदनानि विचार्य पुरस्कारः ऋषिवरस्य श्रीअरविन्दस्य जन्मदिवसे (अगस्त-पञ्चदशदिनाङ्के) प्रतिवर्षम् उद्धोष्यते।

ये बालसाहित्यसर्जकाः ‘बालविभूषण’-सम्मानार्थम् आवेदयितुम् इच्छन्ति, ते स्वकीयम् आवक्षचित्रसहितं जीवनवृत्तम्, बालसाहित्यस्य प्रतिद्वयं च संप्रेष्य निम्नसङ्केतेन जुलैमासस्य एकत्रिंशदिनाङ्कं यावत् प्रेषयेयुः।

(Address to send the details: Director, SAFIC, Sri Aurobindo Society, 11, Saint Martin Street, Puducherry – 605001, Email- safic@aurosociety.org)

साभारम् – Samskrita Baalasahitya Parishad

Leave a Reply

Your email address will not be published. Required fields are marked *