षीला दीक्षित् वर्या दिवंगता।

नवदिल्ली- दिल्ली मुख्यमन्त्रिचरा तथा दिल्ली प्रदेश् कोण्ग्रेस् अध्यक्षा च श्रीमती षीला दीक्षित् वर्या दिवङ्गता। सा ८१ वयस्का आसीत् हृदयाघातकारणात् दिल्लीस्थे निजीयचिकित्सालये आसीदन्त्यम्।

शनिवासरे प्रातः एव दिल्लीस्थे फोर्टीस् एस्कोर्ट हार्ट् इन्स्टिट्यूट् नामके चिकित्सालये सा प्रवेशिता। सायं ३.५५ वादने अन्त्यमभवदिति बान्धवाः असूचयन्।
वरिष्ठा कोण्ग्रेस् दलनेत्री सा पञ्चमासपर्यन्तं केरले राज्यपालपदवीमलंचकार।
१९९८ तः २०१३ पर्यन्तम् अनुस्यूततया त्रिवारं सा दिल्ली मुख्यमन्त्रिपदम् अलञ्चकार। राजीवगान्धीमन्त्रिपरिषदि अङ्गमासीत्। यु.पी.ए. अध्यक्षया सोणियागान्धीवर्यया सह सुदृढं सौहार्दं सा पर्यपालयत्।
षीला दीक्षितस्य देहवियोगे राष्ट्रपतिः रामनाथकोविन्द्, प्रधानमन्त्री नरेन्द्रमेदी, राहुल् गान्धी, दिल्ली मुख्यमन्त्री अरविन्द् केज्रिवाल् प्रभृतयः अन्वशोचन्।

Leave a Reply

Your email address will not be published. Required fields are marked *