कुवैत् राष्ट्रे योगप्रशिक्षणकेन्द्रं प्रवर्तनम् आरब्धम्।

कुवैत्- कुवैत् राष्ट्रे योगा हेल्त् प्लस् इति नामना योगप्रशिक्षणकेन्द्रं प्रवर्तनमारब्धम्। जीवितशैलीरोगान् योगाभ्यासद्वा कथं प्रशमयितुं शक्यते इति मुख्यप्रभाषिका डो. अखिला विनोद् वर्या प्रत्यपादयत्। साल्मिया नाफो मण्डपे आयोजितं योगा हेल्त् प्लस् इत्यस्य उद्घाटनं डो. अखिला विनोद् वर्यया साकं नाफो अध्यक्षः विजयकृष्णः, राजीव् मेनोन्, लक्ष्मी प्रमोद्, अनिल् कुमार् इत्येये सम्भूय निरवहन्।
Leave a Reply