केरलीय संस्कृतसंधस्य नेतृत्वे द्विदिवसीया शिल्पशाला

तृशूर्- केरलीयसंस्कृतसंघस्य नेतृत्वे द्विदिवसीया शिल्पशाला २०१९ मार्च मासस्य ९,१० दिनाङ्कयोः तृशूर् केरलवर्मा कलालये आयोज्यते।
अस्य उद्घाटनं केरलकलामण्डलं कल्पितविश्वविद्यालयस्य कुलपतिः डो. टी.के. नारायणन् वर्यः निर्वक्ष्यति। उद्घाटनाधिवेशने डो, कावुम्पायि बालकृष्णन् वर्यः अध्यक्षो भविता। डो. वी.के. विजयन् स्वागतं व्याहरिष्यति।

उद्घाटनानन्तरं प्रभाषणानि भवितारः। नवोत्थानवीक्षणानि इति विषये डो. राजा हरिपिरसाद्, धर्मविश्वासः मानविकता च इति विषये डो. के.जी. पौलोस्, ज्योतिषं ज्योतिश्शास्त्रं च इति विषये डो. वी. आर्. मुरलीधरन्, मण्डलस्थेषु मन्दिरेषु आचारः विश्वासश्च इति विषये मुल्लमङ्गलं नारायणन् नम्पूतिरि , भारतीयदर्शनानि इति विषये डो. जे. प्रसाद् इत्येते प्रभाषणानि विधास्यन्ति।

Leave a Reply

Your email address will not be published. Required fields are marked *