Monthly Archives: December 2018

संगमग्राममाधवगणितकेन्द्रम् इरिङ्ङालक्कुटा।

इरिङ्ङालक्कुटा – यूरोपे आधुनिकगणितस्य उदयात् पूर्वं शतकेभ्यः प्रागेव आधुनिकगणिताशयानाम् आधारमधिकृत्य चिन्तितवान् गणित-ज्योतिशास्त्रप्रतिभाधनः आसीत् संगमग्राममाधवः इति विख्यातः इरिङ्गाटप्पल्ली माधवन् नम्पूतिरिः।

तृशूर् जनपदे इरिङ्ङालक्कुटासमीपे कल्लेट्टिन्करा प्रदेशस्थे इरिङ्ङाटप्पल्लिमनागृहे एव स जनिमलभत इति इतिहासपण्डितानामभइप्रायः। वटश्शेरि परमेश्वरादारभ्य कटत्तनाट् राजा शङ्करवर्मा महाशयपर्यन्ता ४०० वर्षीया केरलीयगणितशास्त्रसरणिः प्रसिद्धा एव। तस्याः सरणेः उपज्ञाता भवति संगमग्राममाधवः। स गोलवित् इति नाम्ना अपि व्यवह्रियते स्म।

माधवाचार्यस्य नाम्नि २०११ वर्षात् प्रभृति इरिङ्ङालक्कुटायां प्रवर्तितं गणितगवेषणकेन्द्रं भवति संगमग्राममाधवगणितकेन्द्रम्। भारतीयगणितपरम्परां गणितशास्त्रज्ञान् विशिष्य केरलसरणिं चाधिकृत्य नवसन्तानेभ्य परिचायनमेव केन्द्रस्यास्य मुख्यमुद्देश्यम्।

केन्द्रस्यास्य आभिमुख्ये –

  • भारतीयगणितसमारोहः
  • वेदगणितशिल्पशाला
  • माधवगणितपुरस्कारदानम्
  • युगणितप्रतिभासंगमः
  • गणितोत्सवः
  • गणिततीर्थयात्रा
  • गणितशास्त्रदिनाचरणम्

इत्यादयः कार्यक्रमाः आयोज्यन्ते।

अद्य राष्ट्रिय गणितशास्त्रदिनम् आचर्यते।

नवदिल्ली- गणितशास्त्रमण्डले सार्वकालिकः अद्भुतप्रतिभासः भवति श्रीनिवास रामानुज वर्यः। तस्य महात्मनः जन्मदिनं भवति दिसम्बर् २२। २०१२ तमे वर्षे तस्य १२५ तमं जन्मवार्षिकम् आभारतम् आचरितम्। अपि च तद्दिनं राष्ट्रिय गणितशास्त्रदिनत्वेन उद्घुष्टं सर्वकारैः।

     वैदिककालादारभ्य अनुस्यूतं प्रवहितायाः विज्ञानधारायाः अन्तिमा सृणिः आसीत् अयं महाभागः। चतुर्दशशतकादारभ्य अष्टादशशतकारम्भं यावत् कालघट्टः भारतीयगणितशास्त्रेतिहासे प्रोज्वलः अध्यायः आसीत्। ततः प्रवर्धिता विकसिता च भवति केरलीय गणितशास्त्र सरणिः। एषा गुरुशिष्यपरम्परा संगमग्राममाधवद्वारा उदिता। एष एव कालः यूरोपीयीधिनिवेशस्यापि काल आसीत्। अतः सुवर्णयुगस्यास्य तिरस्कारः अभवत्। अधिनिवेशशक्तयः एतद्देशीयान् राजनैतिकाधिकारान् व्यभञ्जयन् तथा धैषणिककार्याणि अवामन्यन्त च। ततः परं शतकान् यावत् भारतीयगणितशास्त्रे नवीनचिन्ताधाराः नोदिताः

     पुनः श्रीनिवासरामानुज एव एतां चिन्ताधारां पुनराविष्कृतवान्।

राजधानी अतिशैत्ये निमज्जा

नवदिल्ली- भारतस्य राजधानी नवदिल्ली अधुना अतिशैत्ये संलग्ना भवति। गतेभ्य चतुर्भ्यः वर्षेभ्यः न्यूनतमं तापमानं दिल्ल्याम् अङ्कितम्। गुरुवासरे दिल्यामङ्कितं तापमानं ४ डिग्री सेल्ष्यस् वर्तते। एतत् सामान्यतो चतुर्डिग्री न्यूनं भवति। दिनद्वयं यावत् समाना स्थितिः भविष्यतीति वातावरण निरीक्षणकेन्द्रस्य सूचना अस्ति। दिल्ली समीपस्थे गुड्गाव् स्थले तापमानं १.८. डिग्री परिमितं वर्तते। २०१४ तमे वर्षे एतादृशं न्यूनतमं तापमानम् अङ्कितमासीत्।

केरलीयच्छात्राः भाग्यवन्तः इति राज्यपालः न्या. पी.सदाशिवं वर्यः।

मलप्पुरम्- केरलेषु उन्नतशिक्षायै विपुलाः अवसराः सन्तीत्यतः अत्रत्याः छात्राः भाग्यवन्तः इति राज्यपाल न्याय. पी. सदाशिव वर्यः अब्रवीत्।  मलप्पुरं स्वलात्  नगर् म अदीन् अक्कादम्याः केम्पस् एड्यू पार्क इति शिक्षाकेन्द्रस्य उद्घाटन विधास्यन् भाषमाण आसीत् सः।

     म अदीन् अध्यक्षः इब्राहिमुल् खलील् अल् बुहारी  सन्देशभाषणं व्यदधात्। नियमसभासदस्यः पी उबैदुल्ला ए.पी. अब्दुल् करीं,  वास्तुशिल्पी नसीर् खान् प्रभृतयः आशंसामर्पयामासुः।

शबरिमला सन्निधाने भक्तजनानां महान् सम्मर्दः अनुभूयते।

पम्पा -मण्डलकालतीर्थाटनस्य अन्तिमे घट्टे समायाते शबरिमला सन्निधाने भक्तजनानां महान् सम्मर्दः अनुभूयते। ह्यस्तने ७३००० तीर्थाटकाः पम्पामार्गं सन्निधानं सम्प्राप्ताः इत्यावेद्यते। भक्तानां नियन्त्रणेेषु यद्यपि शैथिल्यं कृतं तथापि निरोधादेशस्य प्रत्यावर्तनसाहचर्यम् अधुना नास्तीति रक्षिदलस्य विश्वासः। अस्मिन् तीर्थाटनकाले शनिवासरे एव सन्निधाने महान् सम्मर्दः अनुभूतः। तदा ८०००० जनाः पम्पामार्गं सन्निधानं समगच्छन्।
मण्डलकालपरिसमाप्तेः दशदिनानि अवशिष्यते। अतः सम्मर्दः अधिकं स्यादिति प्रतीक्षा अस्ति। राज्यान्तरतीर्थाटकाः अपि बहवः आगच्छेयुः।

तन्मुखं सुखदायकम् – 22-12-2018

 

नूतना समस्या –

“तन्मुखं सुखदायकम्”

ഒന്നാംസ്ഥാനം

പൂർണിമായാം തിഥൗരാത്രൗ
നിർമലേ ഗഗനേ സദാ
നിതരാംശോഭതേചന്ദ്ര:
തന്മുഖം സുഖദായകം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

PRASNOTHARAM 22-12-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ——– मोदकं रोचते ।(क) बालकः (ख) बालके (ग) बालकाय
  2. वयम् अध्ययनाय विद्यालयं ———।(क) गच्छन्ति (ख) गच्छामः (ग) गच्छथ
  3. धनिकः ——–धनं ददाति।(क)भिक्षुकाय (ख)भिक्षुकस्य (ग)भिक्षुकात्
  4. छात्राः ज्ञानार्थं ———–।(क) पठामः (ख) पठन्ति (ग) पठथ
  5. पुत्री ——-रोटिकां यच्छति। (क) जनन्यै (ख) जनन्यः (ग) जनन्याः
  6. ते ——— वस्तूनि आनयन्ति । (क) आपणानि (ख) आपणेभ्यः (ग) आपणम्
  7. भवती ——- बिभेति ? (क) कस्मै (ख) कस्य (ग) कस्मात्
  8. युतकं ——- रक्षति।(क) शीतस्य (ख) शीतात् (ग) शीतम्
  9. गृहिणी ——– लज्जाम् अनुभवति। (क) श्वशुरात्  (ख) श्वशुरस्य (ग) श्वशुरः
  10. शिशुः ———पतति। (क) दोलाम् (ख) दोलायाः (ग) दोलायै

ഈയാഴ്ചയിലെ വിജയി

DAWN JOSE

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adidev C S
  • Dawn Jose
  • Maya P R
  • Lijina
  • Lakshmi Illikkal
  • Jyotsna K S
  • Parameswaran

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

नारायणीयं पुरस्कारं हरिप्रसाद् कटम्पूर् वर्याय समार्पयत्।

गुरुवायूर् – नारायणीयदिनमनुबन्ध्य पण्डितेभ्यो दीयमानाय नारायणीयपुरस्काराय अस्मिन् वर्षे हरिप्रसाद् कटम्पूर् इति पण्डितवर्यः अर्हो/भवत्। नारायणीये काव्यालङ्कारः इत्यस्मिन् विषये समर्पितः प्रबन्धः एव पुरस्काराय परिगणितः।

     नारायणीयदिनत्वेन आचरिते ह्यस्तने गुरुपवनपुरस्थे मेप्पत्तूर् सभागृहे आयोजिते समारोहे पुरस्कारः समर्पितः।मातृभूमी दिनपत्रिकायाः मुख्यसम्पादकः पुरस्कारं तस्मै समर्पितवान्। देवस्वं भारवाहिप्रभृतयो महात्मानः सन्न्हिताः आसन्। अष्टमवारम् अनुस्यूततया हरिप्रसादः एतस्मै पुरस्काराय अर्हः अभवत्।

अमिताव् घोष् वर्यः ज्ञानपीठेन पुरस्कृतः।

नवदिल्ली-  आङ्गलभाषायां प्रथमः ज्ञानपीठपुरस्कारः विख्यातेन साहित्यकारेण अमिताव् घोष् वर्येण स्वायत्तीकृतः। साहित्यक्षेत्रे उत्कृष्टयोगदानाय दीयमानः अयं पुरस्कारः प्रप्रथममेव भारतीय-आङ्गलसाहित्यकाराय दीयते।

     भूतं वर्तमानं च समायोजयति घोष् वर्यस्य रचना इति ५४ तमस्य ज्ञानपीठपुरस्कारस्य प्रख्यापनं विधास्यन्  पुरस्कारसमितिः अभिप्रैति स्म। इतिहासकारः सामाजिक-नरवंशशास्त्रज्ञश्च भवति अभिताव् घोष् वर्यः। तेषु विषयेषु तस्य अगाधं पाण्डित्यं तस्य कृतिषु प्रतिफलतीति समितिः प्रास्तावयत्। वंगदेशीयः भवत्ययं वर्यः।

केरलराज्ये अद्य भा.ज.पा. दलेन विज्ञप्तं पिधानान्दोलनम्। परिक्षा पुनःक्रमीकृता।

तिरुवनन्तपुरम्- केरलराज्ये अद्य भा.ज.पा. दलस्य नेतृत्वे पूर्णपिधानम् आचर्य़ते। अनेन अद्य समायोज्यमाना विद्यालयीय परीक्षा पुनःक्रमीकृता। एतदनुसारम् अद्यतनी परीक्षा दिसम्बर् २१ दिनाङ्के आयोक्ष्यते।

     शबरिमला विषयमनुबन्ध्य सचिवालयद्वारे अनशनसमरं कुर्वन्तः आसन् केचन भा.ज.पाय नेतारः तन्मध्य ह्यस्तने प्रातः २.३० वादने कश्चन पुरुषः समरवेदिकासमीपमागत्य मृत्तैलेन शरीरमभिषिच्य स्वयम् पावकं जज्वाल। अर्धदग्धः स झटिति चिकित्सालयं नीतः। तथापि सायं स ऐहिकं देहं तत्याज। स पुरुषः अय्यप्पभक्तः आसीत्, शबरिमलाविषये सर्वकारनिर्णयेन तप्तः स आत्माहूतिमकरोत् इति च भा.ज.पा. दलस्य आक्षेपः। तस्य आदररूपेण अद्येदम् आन्दोलनम् आचर्यते इति नेतारः वदन्ति।