संगमग्राममाधवगणितकेन्द्रम् इरिङ्ङालक्कुटा।

इरिङ्ङालक्कुटा – यूरोपे आधुनिकगणितस्य उदयात् पूर्वं शतकेभ्यः प्रागेव आधुनिकगणिताशयानाम् आधारमधिकृत्य चिन्तितवान् गणित-ज्योतिशास्त्रप्रतिभाधनः आसीत् संगमग्राममाधवः इति विख्यातः इरिङ्गाटप्पल्ली माधवन् नम्पूतिरिः।

तृशूर् जनपदे इरिङ्ङालक्कुटासमीपे कल्लेट्टिन्करा प्रदेशस्थे इरिङ्ङाटप्पल्लिमनागृहे एव स जनिमलभत इति इतिहासपण्डितानामभइप्रायः। वटश्शेरि परमेश्वरादारभ्य कटत्तनाट् राजा शङ्करवर्मा महाशयपर्यन्ता ४०० वर्षीया केरलीयगणितशास्त्रसरणिः प्रसिद्धा एव। तस्याः सरणेः उपज्ञाता भवति संगमग्राममाधवः। स गोलवित् इति नाम्ना अपि व्यवह्रियते स्म।

माधवाचार्यस्य नाम्नि २०११ वर्षात् प्रभृति इरिङ्ङालक्कुटायां प्रवर्तितं गणितगवेषणकेन्द्रं भवति संगमग्राममाधवगणितकेन्द्रम्। भारतीयगणितपरम्परां गणितशास्त्रज्ञान् विशिष्य केरलसरणिं चाधिकृत्य नवसन्तानेभ्य परिचायनमेव केन्द्रस्यास्य मुख्यमुद्देश्यम्।

केन्द्रस्यास्य आभिमुख्ये –

  • भारतीयगणितसमारोहः
  • वेदगणितशिल्पशाला
  • माधवगणितपुरस्कारदानम्
  • युगणितप्रतिभासंगमः
  • गणितोत्सवः
  • गणिततीर्थयात्रा
  • गणितशास्त्रदिनाचरणम्

इत्यादयः कार्यक्रमाः आयोज्यन्ते।

Leave a Reply

Your email address will not be published. Required fields are marked *