सर्वान् रक्षति संस्कृतम्- 10-11-2018

 

नूतना समस्या –

“सर्वान् रक्षति संस्कृतम्”

ഒന്നാംസ്ഥാനം

मन्त्रिवर्यान् तथा श्रेष्ठ-
तन्त्रिमुख्यान् च सर्वदा।
शास्त्रतत्वप्रदानेन
सर्वान् रक्षति संस्कृतम्।।

Anil Thekkumpuram

“അഭിനന്ദനങ്ങള്‍”

12 Responses to सर्वान् रक्षति संस्कृतम्- 10-11-2018

  1. ഉല്ലാസ് സംസ്കൃതി says:

    മൂന്നാംസ്ഥാനം

    വിജ്ഞാനേനാശു ശോഭന്തേ
    നിത്യം സംസ്കൃത വസ്തുനി
    വിജ്ഞാനമണ്ടലേ തിഷ്ഠത്
    സർവ്വാൻ രക്ഷതി സംസ്കൃതം

  2. SREELAKSHMI.MR says:

    सर्वभाषासु जननी
    अतिश्रेष्ठभाषा एव ।
    देवानां प्रियभाषा च
    सर्वान् रक्षति संस्कृतम् ।।

    • SREELAKSHMI.MR says:

      सर्वभाषासु जननी
      अतिश्रेष्ठभाषा एव ।
      देवानां प्रियभाषा
      सर्वान् रक्षति संस्कृतम् ।।

  3. ज्योत्स्ना के.एस् says:

    आयुर्वेदप्रकारांस्तान्
    संगीतप्रवरांस्तथा।
    साधुग्रन्थप्रदानेन
    सर्वान् रक्षति संस्कृतम्।।

  4. नववाणी says:

    മൂന്നാംസ്ഥാം

    समस्यापूरणोद्युक्तान्
    कवनोत्सुकतत्परान्।
    पदार्थज्ञानदानेन
    सर्वान् रक्षति संस्कृतम्।।

  5. श्रीजा मुम्बै। says:

    आचारान् परमान् तद्वत्
    देवतापूजनाविधीन्।
    वेदार्थतत्वबोधेन
    सर्वान् रक्षति संस्कृतम्।।

  6. वासुदेवः पल्लिमङ्गलम्। says:

    രണ്ടാംസ്ഥാനം

    कान् कान् रक्षति देवेशः
    देवोfपि कुरुते च किम्
    संस्कारवाहकं किं तत्
    सर्वान् रक्षति संस्कृतम्।।

  7. रामचन्द्रः। says:

    नववाणीं तथा चैतान्
    वार्तामाध्यमकोविदान्।
    साधूच्चारणमार्गेण
    सर्वान् रक्षति संस्कृतम्।।

  8. विजयन् वि पट्टाम्बि says:

    पददोषार्थदोषौ च
    वाच्यवाक्यार्थहेतुकौ।
    नाशयत्कवने नित्यं
    सर्वान् रक्षति संस्कृतम्।।

  9. നാരായണന്‍ മുംബൈ says:

    പതിതാന്‍ പാമരാംശ്ചൈവ
    ദരിദ്രാന്‍ ഭക്തകോവിദാന്‍
    ആത്മജ്ഞാനപ്രദാനേന
    സര്‍വാന്‍ രക്ഷതി സംസ്കൃതം

  10. Anil Thekkumpuram says:

    ഒന്നാംസ്ഥാനം

    मन्त्रिवर्यान् तथा श्रेष्ठ-
    तन्त्रिमुख्यान् च सर्वदा।
    शास्त्रतत्वप्रदानेन
    सर्वान् रक्षति संस्कृतम्।।

  11. गौतमः । says:

    युक्तिवादिन् तथा नित्यं
    सत्यमार्गप्रचारिणः।
    चार्वाकन्यायवादेन
    सर्वान् रक्षति संस्कृतम्।।

Leave a Reply

Your email address will not be published. Required fields are marked *