शबरिमलायां स्त्रीप्रवेशविषयः, तन्त्रिपरिवारः समवायचर्चातः प्रत्यगच्छत्।

पत्तनंतिट्टा- मुख्यमन्त्रिणा पिणरायि विजयवर्येण सह  समवायचर्चातः तन्त्रिपरिवारः प्रत्यगच्छत्। सर्वोच्चन्यायालये पुनः शोधनावेदनकार्ये निर्णयानन्तरं चर्चा आयोजनीया इत्येव परिवारस्य अभिप्रायः। शबरिमला तन्त्रिवर्यः कण्ठर् मोहनर् वर्यः कार्यमिदम् आवेदयत्। सोमवासरे तन्त्रिपरिवारेण सह मुख्यमन्त्री चर्चा आयोजिता आसीत्। श्वः पुनःशोधनावेदनं दास्यतीति सूचना अस्ति।

     पूर्वं देवस्वं मन्त्रिणा साकं चर्चा निर्णीता आसीत्। पुनः मुख्यमन्त्री स्वयमेव चर्चाचालनाय उद्युक्तः अभवत्। शबरिमलामन्दिरे स्त्रीणां प्रवेशविषये सर्वोच्चन्यायालयस्य निर्णयः प्रवृत्तिपथमानेतुं सर्वकारस्य प्रतिबद्धता अस्ति। मार्क्स्वादी साम्यवादी दलस्यापि अयमेवाभिप्रायः। परन्तु भक्तजनानां विरोधः समवायचर्चया परिहार्य ॆइति बुध्या चर्चा आयोजिता आसीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *