राज्यस्तरीयं विद्यालयकलोत्सवं विहातुं सर्वकारस्य निर्णयं विरुध्य छात्रसंघटनाः।

तिरुवनन्तपुरम्- विद्यालयीयकलोत्सवं हातुं सर्वकारस्य निर्णये प्रतिषेधेन सह छात्रसंघाः रङ्गमागताः। एस्. एफ्.ऐ., के.एस्.यू. प्रभृतयः संघा एव प्रतिषेधमसूचयन्।

कलोत्सवः छात्राणामधिकार एव कलोत्सवसञ्चालनार्थं सर्वकारं निवेदयति इति एस्.एफ्.ऐ. संघः अवदत्। प्रलयदुरन्तस्य भूमिकायां कलोत्सवं संघाटयन् छात्राणां आत्मशक्तिः संवर्धनीया इति के.एस्.यु. संघश्चावदत्।

प्रलयदुरितमभिलक्ष्य सर्वान् आघोषान् विहातुं सर्वकारेण निर्णीतमासीत्। तेषु मध्ये विद्यालयीय कलोत्सवः अपि अन्तर्गतः। छात्राणां कृते कृपाङ्कादिकेषु विषयेषु विघातः सम्भवेयुः इति आशङ्कया छात्रसंघाः प्रतिषेधेनागताः।

Leave a Reply

Your email address will not be published. Required fields are marked *